________________
स्याद्वादपुष्पकलिका
२) तथानेकपर्यायपरिणमनरूपोऽनित्यस्वभावः। ३) स्वभावानामेकाधारत्वमेकस्वभावः। ४) एकस्याप्यनेकत्वभावोपलम्भोऽनेकस्वभावः। ५) स्वस्वभावाविनाशितधर्मोऽस्तिस्वभावः। ६) [तद् विपरीतः पररूपाभावो] नास्तिस्वभावः। ७) गुणगुण्यादिसञ्जादिभेदानेदस्वभावः। सञ्ज्ञासङ्ख्यालक्षणप्रयोजनानि। ८) गुणगुण्याघेकस्वभावादभेदस्वभावः। ९) भाविकाले परस्वरूपाकारो भव्यस्वभावः। १०) कालत्रयेऽपि परस्वरूपाकाराभवनरूपोऽभव्यस्वभावः। उक्तं चअण्णोण्णं पविसंता दितावगासमण्णमण्णस्स। मेलंतावि अणिच्चं सगसगभावंण विणिहति।
(प.का.-७) ११) नित्यानित्यायेकस्वरूपोच्चारणं वक्तव्यः। १२) उभयधर्मसमन्वितोऽवक्तव्यः। १३) पारिणामिकभावप्रधानत्वेन परमस्वभावः। इति त्रयोदशसामान्यस्वभावार्थः॥१०॥
दश विशेषस्वभावाः
[१५] अथ दश विशेषस्वभावानाह[मूल] मूर्तचेतनशुद्धैकप्रदेशप्रतिपक्षिकाः। विभावाश्चोपचरितस्वभावाः स्युर्विशेषिकाः॥११॥
(व्याख्या) मूर्तामूर्त-चेतनाचेतन-शुद्धाशुद्धैकप्रदेशानेकप्रदेश-विभावोपचरितस्वभावा विशेषा भवन्तीत्यर्थः। मूर्तादीनां व्याख्या तु पूर्वोक्तैव बोद्धव्या॥११॥
[पञ्चमस्य अस्तिकायद्वारस्य उत्तरद्वाराणि] [१६] [मूल| जीवाजीवप्रभेदाभ्यां स्याद् द्विविधोऽस्तिकायिकः।
नूनं जीवस्त्वेकविधोऽपरो धर्मादिकाम्बुधिः॥१२॥ (व्याख्या) जीवेत्यादि। अस्तिकायिको जीवाजीवप्रभेदाभ्यां द्विविधोऽस्ति = युगविधो भवति। तत्र नूनं जीव एकविधोऽपरोऽजीवास्तिकायो धर्मादिकैरम्बुधिश्चतुर्विधो भवतीत्यर्थः। अस्तित्वेनास्तिकायस्य निजगतभेदाभावाद् विशेषेण भाक्तमिति॥१२॥
षष्ठस्य नयद्वारस्य उत्तरद्वाराणि, द्रव्यार्थिकस्य दश भेदाः। [१७] अथ नयद्वारं गाथाद्विकेनाह[मूल] द्रव्यपर्यायार्थिकाभ्यां मूलतोऽस्ति नयद्विधा। शुद्धसत्तैकद्रव्यार्थाशुद्धनित्यस्वरूपकाः॥१३॥ [मूल] सद्वक्तव्यान्वयोत्कृष्टपरमभावकास्तथा। द्रव्यार्थिको दशविधो भवेत्तीर्थङ्करागमे॥१४॥
१. यहां पर १५, १६ गाथाएं तथा १७ वी गाथा का पूर्वार्ध सं. प्रत में नहीं है , ला.द प्रत में है।