________________
स्याद्वादपुष्पकलिका
[तृतीयस्य पर्यायद्वारस्य उत्तरद्वाराणि] [१२] अथ तृतीयं पर्यायद्वारमाह[मूल] द्रव्यगुणविकारा ये पर्यायाः प्रवदन्ति ते। निजभावविभावाभ्यां द्विविधाः स्युर्जिनागमे॥८॥
(व्याख्या) ये द्रव्यगुणविकारास्ते तज्ज्ञाः पर्यायाः प्रवदन्ति = कथयन्तीति। पुनस्ते पर्याया जिनागमे = सिद्धान्ते निजभावविभावाभ्यां = स्वभावविभावाभ्यां द्रव्येषु विविधाः प्रकारा भवन्तीत्यन्वयः। द्रव्येषु शुद्धस्वरूपपरिणमनरूपा ये पर्यायास्ते स्वभावपर्यायाः षड्द्रव्येषु भवन्ति। अशुद्धस्वरूपपरिणमनरूपा विभाविपर्यायाः। ते पुद्गलजीवयोरेव भवन्ति। अगुरुलघुविकाराः स्वपर्यायास्ते द्वादशधा भवन्ति। अनन्तभागवृद्धिः, असङ्ख्यातभागवृद्धिः, सङ्ख्यातभागवृद्धिः, सङ्ख्यातगुणवृद्धिः, असङ्ख्यातगुणवृद्धिः, अनन्तगुणवृद्धिरिति षड् वृद्धिरूपाः ज्ञेयाः। तथा अनन्तभागहानिः, असङ्ख्यातभागहानिः, सङ्ख्यातभागहानिः, सङ्ख्यातगुणहानिः, असङ्ख्यातगुणहानिः, अनन्तगुणहानिः, एवं षइ हानिरूपा ज्ञेयाः। विभावे पर्यायाः नारकादिगतिभिश्चतुर्विधाः सन्ति [अथवा चतुरशीतिलक्षयोनयो भवन्तीत्यर्थः। तथा स्वभावविभावपर्याया द्रव्यव्यञ्जनगुणव्यञ्जनाभ्यां द्वौ द्वौ भवत इति गाथार्थः।।८॥
[पर्यायस्य षइभेदाः] [१३] अथवा पर्यायस्य षइभेदान् ग्रन्थान्तरादाह[मूल] वा द्रव्ये रसपर्यायाः स्युर्द्रव्ये द्रव्यव्यञ्जनः। गुणगुणव्यञ्जनकः स्वभावान्ये भवन्ति च ॥९॥
(व्याख्या) वा = अथवा पर्यायाः षड्विधा भवन्ति। द्रव्य-द्रव्यव्यञ्जन-गुण-गुणव्यञ्जन-स्वभाव-विभावा भवन्तीत्यर्थः। असङख्येयप्रदेशसिद्धत्वादयो द्रव्यपर्यायाः। द्रव्येष गत्यादयो विशेषगणाः स्वस्वभिन्नकायप्रत्यक्षकरणशीला द्रव्यव्यञ्जनाः। पर्यायपिण्डत्वानन्तगुणाविभागरूपा गुणपर्यायाः सन्ति। ज्ञानदर्शनचारित्रगुणानां भेदान्तरज्ञानं गुणव्यञ्जनम्। स्वभावपर्याया अगुरुलघुवस्तुनि षट्स्थानीयवृद्धिहानिभ्यां द्वादशविधाः सन्ति। पूर्वोक्तानि ज्ञेयानीत्यर्थः। तथा जीवपुद्गलयोः नरनारकादिगत्यनुभवनं व्यणुकत्र्यणुकादिभिरनन्तप्रदेशपर्यन्तं विभाविपर्याया इत्यर्थः॥९॥
[चतुर्थस्य स्वभावद्वारस्य उत्तरद्वाराणि, त्रयोदश सामान्यस्वभावाः] [१४] अथ त्रयोदश सामान्यस्वभावगाथामाह[मूल] नित्यैकास्तिभेदभव्यवक्तव्येतरकोत्कटाः।
सामान्यानि स्वभावाः स्युः त्रयोदशमितानि च॥१०॥ (व्याख्या) नित्यानित्यैकानेकास्तिनास्तिभेदाभेद-भव्याभव्य-वक्तव्यावक्तव्य-परमस्वभावास्त्रयोदशमितानि सामान्यानि भवन्तीत्यर्थः।
१) निजनिजविविधपर्यायानेकस्वभावेषु तदेवेदमिति द्रव्योपालम्भो नित्यस्वभावः।
१. यहां पर विभावे पर्यायः की जगह विभावपर्यायः पाठ अधिक सुसंगत होता है। वा पद योनयो के बाद संगत लगता है। २. यहां पर द्रव्ये द्रव्यव्यञ्जन की जगह द्रव्य-द्रव्यव्यञ्जन पाठ होना चाहिए। स्वभावान्ये की जगह स्वभावान्यौ होना चाहिए। ३. यहां पर गुणव्यञ्जनम् की जगह गुणव्यञ्जनः पाठ होना चाहिए। ४. यहां पर पर्यन्तो विभावपर्याय इत्यर्थः ऐसा पाठ होना चाहिए।