________________
स्याद्वादपुष्पकलिका
(व्याख्या) सामान्यास्त्रयोदश गुणाः सन्ति। तद्यथा- द्रव्यत्व-अस्तित्व-वस्तुत्व-प्रदेशत्व-प्रमेयत्व-सत्त्व(त्त्वानि), च पुनरर्थः, अगुरुलघुत्व-चेतनत्व-अचेतनत्व-मूर्तत्व-अमूर्तत्व-सक्रियत्व-अक्रियत्वका इत्यादयो भवन्तीत्यर्थः। गुण्यते = पृथक्क्रियते द्रव्यं द्रव्याद् यैस्ते गुणाः।
(१) द्रव्यस्य भावो द्रव्यत्वम्। निजनिजप्रदेशव्यूहैरखण्डवृत्त्या स्वभावविभावगुणपर्यायेभ्यो द्रवति द्रोष्यति इति द्रव्यम्।
(२) अस्तीत्येतस्य भावोऽस्तित्वं सद्रूपत्वम्। (३) सामान्यविशेषात्मकं वस्तु, वस्तुनो भावो वस्तुत्वम्। (४) प्रदेशस्वभावः प्रदेशत्वम् = क्षेत्रत्वमविभागि-पुद्गल-परमाणुनावष्टब्धत्वम्। (५) प्रमाणेन स्वपररूपं परिच्छेद्यं प्रमेयम्, प्रमेयस्य भावः प्रमेयत्वम्।
(६) उत्पादव्ययध्रुवयुक्तं सत्, सीदति स्वकीयान् गुणपर्यायान् व्याप्नोति इति सदिति। सदित्येतस्य भावः सत्त्वम्।
(७) अगुरुलघोर्भावोऽगुरुलघुत्वम्, सूक्ष्मा = अवाग्गोचराः प्रतिक्षणं वर्तमाना इत्यर्थः। अत्र जिनागमप्रामाण्याद् अगुरुलघुगुणा अभ्युपगम्याः सन्ति।
(८) चेतनस्य भावश्चेतनत्वमनुभवाज्ज्ञेयोऽस्ति। तदुक्तं देवसेनालापपद्धत्याम्चैतन्यमनुभूतिः स्यात् सा क्रियारूपमेव च। क्रिया मनोवचःकायेष्वन्विता वर्तते ध्रुवम्॥ ( ) (९) अचेतनस्य भावोऽचैतन्यम् अचैतन्यमननुभवनमित्यर्थः। (१०) मूर्तस्य भावो मूर्तत्वं रूपादिमत्त्वमित्यर्थः। (११) अमूर्तस्य भावोऽमूर्तत्वं रूपादिरहितत्वमरूपादिमत्त्वमित्यर्थः। (१२) सक्रियस्वभावः सक्रियत्वं क्रियायुक्तत्वमित्यर्थः। (१३)अक्रियस्य भावोऽक्रियत्वं क्रियारहितत्वमित्यर्थः। एवं सामान्या त्रयोदशगुणा भवन्ति।
[अष्टादश विशेषगुणाः] [११] अथ सार्द्धगाथयाष्टादश विशेषगुणानाह
दर्शनज्ञानसौख्यं च वीर्यं षट् चेतनादयः॥६॥ [मूल] वर्णगन्धरसस्पर्शगतिस्थित्यवगाहना। वर्तनाहेतुचत्वारोऽष्टादश स्युर्विशेषिकाः॥७॥
(व्याख्या) दर्शन-ज्ञान-सुख-वीर्य-चेतनत्व-अचेतनत्व-मूर्तत्व-अमूर्तत्व-सक्रियत्व-अक्रियत्व-वर्ण-गन्ध-रसस्पर्श-गतिहेतुत्व-स्थितिहेतुत्व-अवगाहनाहेतुत्व-वर्तनाहेतुत्वम् इमेऽष्टादश विशेषा गुणा भवन्तीत्यर्थः।
विशेषाववोधरूपं ज्ञानम्, सामान्यावबोधरूपं दर्शनम्, परमानन्दस्वरूपं सुखम्, अनन्तशक्तिप्रवृत्तिस्वरूपं वीर्यम्। पूर्वोक्ताः षट् चेतनादयः चेतनत्व-अचेतनत्व-मूर्तत्व-सक्रियत्व-अक्रियत्वरूपाणीत्यर्थः। हेत्विति चतुर्णां सञ्ज्ञा शेषं स्पष्टम्। इति गुणद्वारम्॥६॥७॥
१ यहां पर भिन्न पद में समास है एवं हेतु पद के बाद विभक्ति होनी चाहिए।