________________
स्याद्वादपुष्पकलिका
पूरणगलनस्वभावः पुद्गलास्तिकायः, स च परमाणुरूपः, यदुक्तम्कारणमेव यदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धद्विस्पर्शः कार्यलिङ्गी च॥ )
ते च लोके अनन्ता एकरूपाः परमाणवः, अनन्ता व्यणुकाः, एवं त्र्यणुका अप्यनन्ताः, एवं सङ्ख्याताणुकस्कन्धा अप्यनन्ताः, अनन्ताणुकस्कन्धा अप्यनन्ता एकैकस्मिन्नाकाशे, इत्थं सर्वलोके विज्ञेयमिति। ततो धर्माधर्मनभः पुद्गलाः चत्वारोऽस्तिकाया अचेतना भवन्तीति। परत्वापरत्वे नूतनपुराणादिलिङ्गव्यक्ते, वृत्तिर्वर्तनारूपपर्यायः कालोऽप्रदेशकरूपोऽस्ति अस्तिकायत्वाभावात्। अनेन पञ्चास्तिकायान्तर्भूतपर्यायरूपता एवास्येति। एते पञ्चास्तिकायाः। तत्र धर्माधर्मों लोकप्रमाणसङ्ख्य(सङ्ख्यात)प्रदेशिको स्तः। लोकप्रमाणप्रदेशप्रमाणैकक्षेत्रप्रदेशे चानन्तजीवाः सन्ति। एवं जीवा अनन्ता भवन्ति। आकाशस्त्वनन्तप्रदेशात्मकलोकालोकप्रमाणोऽस्ति। पुद्गलपरमाणुः स्वयमेकोऽप्यनेकप्रदेशबन्धहेतुभूतद्रव्ययुक्तत्वाद् अस्तिकायः। कालस्तूपचारेण भिन्नद्रव्यम् (?) उक्तः। स च व्यवहारनयापेक्षया मार्तण्डगतिपरिच्छेदपरिमितकालः समयक्षेत्रे एव। एष व्यवहारकालः समयावलिकादिरूप इति॥२॥
[एकादशमूलद्वाराणि] [८] अथ द्वारगाथामाह[मूल] लक्षणगुणपर्यायस्वभावास्तिनयानि च। भावजीवानुयोगाश्च द्रव्येषु वितनोम्यहम्॥३॥
(व्याख्या) लक्ष्यते वस्तु अनेनेति लक्षणम्। द्रव्येषु लक्षणद्वारं प्रथमम्, द्वितीयं गुणद्वारम्, तृतीयं पर्यायद्वारम्, स्वभावद्वारं चतुर्थम्, अस्तिद्वारम् [पञ्चमम्], नयद्वारम् [षष्ठम्] चकारात् प्रमाणद्वारं सप्तमम्, भावद्वारम्, जीवद्वारम्, अनुयोगद्वारम्, चकारेण एकादशमं क्षेत्रद्वारम्, एतानि एकादशद्वाराणि द्रव्येषु लेशेन वितनोमि = निरूपयामीत्यर्थः॥३॥
[प्रथमं लक्षणद्वारं द्वितीयस्य गुणद्वारस्य उत्तरद्वाराणि च] [९] अथ लक्षणादीनामुत्तरद्वारसङ्ख्यानयनाय गाथामाह[मूल] यत्सत्तल्लक्षणं द्रव्यं व्ययोत्पादध्रुवान्वितम्।
त्रयोदशः स्युर्बुर्तिकः(१८) सामान्येतरतो गुणाः॥४॥ (व्याख्या) व्ययोत्पादध्रुवान्वितं यत्सत्तल्लक्षणम् द्रव्यम्, उत्पादव्ययध्रुवयुक्तं सत् यत् तद् द्रव्यमिति लक्षणम्। लक्षणस्य भेदाभावादेकविधमेव लक्षणं प्रोक्तमिति लक्षणद्वारम्। अथ गुणद्वारमाह- त्रयोदशेत्यादि। गुणाः सामान्येतरतः = सामान्यविशेषाभ्यां क्रमात् त्रयोदश अष्टादश च भवन्तीत्यर्थः॥४॥
[त्रयोदश सामान्यगुणाः] [१०] अथ सामान्योत्तरभेदानि सार्धगाथयाह[मूल] द्रव्यत्वास्तित्ववस्तुत्वप्रदेशत्वप्रमेयकम्। सत्त्वं चागुरुलघुत्वं चेतनाचेतनस्तथा॥५॥ [मूल| मूर्तामूर्तक्रियान्यानि सामान्याः स्युस्त्रयोदश।
१. यहां पर लोकप्रमाणप्रदेशके क्षेत्रप्रदेशे चानन्तजीवाः सन्ति यह पाठ समुचित प्रतीत होता है। २. यहां पर हेतुभूतद्रव्ययुक्तत्वाद् यह पाठ उचित प्रतीत होता है।