SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका (व्याख्या) धर्मास्तिकायः, अधर्मास्तिकायः, व्योम = आकाशास्तिकायः, जीवास्तिकायः, पुद्गलास्तिकायः, अद्धा = समयात्मकानि द्रव्याणि रसोन्मितानि षट्प्रमाणान्येव भवन्ति। द्रव्यात्मको लोकः स्मृतः = कथितः।। [५] (व्याख्या) तत्र गत्यादिनिजनिजधर्ममर्यादापूर्वकपर्यायान् द्रवति = गच्छति इति द्रव्यम्। तत्र नामस्थापनाद्रव्यभावभेदैश्चतुर्विधं द्रव्यम्। तत्र नामद्रव्यं यस्य कस्यचिज्जीवस्याजीवस्य वा द्रव्यनाम क्रियते तत् नामद्रव्यम्। यथा कस्यापि मानुजबालस्य द्रव्येन्द्राभिधानं तद्वत्। स्थापनाद्रव्यं काष्ठचित्रपाषाणादिषु या द्रव्यस्थापना क्रियते तत् स्थापनाद्रव्यं देवप्रकृतिवदिन्द्ररुद्रविश्वेत्यादिवत्। द्रव्यद्रव्यं सर्वगुणपर्यायविमुक्तप्रज्ञास्थापितधर्मादीनाम् अन्यतमं द्रव्यद्रव्यम्। भावतो द्रव्याणि धर्मादीनि गुणपर्यायपिण्डैकत्वपरिणतरूपाणि भवन्ति। अथ निक्षेपचतुष्कप्रगटार्थाय भाष्यगाथामाहपज्जायाणभिधेयं ठियमण्णत्थे तयत्थणिरवेक्खं। जाइच्छियं च णामं जावदव्वं च पाएण॥ (वि.आ.भा.२५) जं पुण तयत्थसुण्णं तयभिप्पाएण तारिसागारं। कीरइ व णिरागारं इत्तरमियरं व साठवणा॥ (वि.आ.भा.२६) दवए दुयए दोरवयवो विगारो गुणाण संदावो। दव्वं भव्वं भावस्स भूयभावं च जं जोग्गं॥ (वि.आ.भा.२८) अहवा सम्मइंसणणाणचरित्तोवओगपरिणामो। णोआगमतो भावो णोसद्दो मिस्सभावम्मि॥ (वि.आ.भा.५०) इत्यादिवचनाद्बोध्यम्। [६] (व्याख्या) लोको द्रव्यात्मकेत्यादि। लोको द्रव्यनिचयात्मकः। क्षेत्रैकप्रदेशस्थानन्तद्रव्यनिचयात्मकः कज्जलभृतमुद्गकवदिति दृष्टान्तः। अत्र कोऽप्याह - नन्वलोकेऽप्याकाशद्रव्यमस्ति कथं द्रव्याभावो भाषसे? इत्युच्यते, आधाराधेयाभ्याम, अलोकाधारो लोकः, लोकालोकाधारं नभः, लोकाकाशाधारे आधार व्याप्यव्यापकभावेन वा षड् द्रव्याणि भवन्ति, अनाद्यनन्तकालत्वाद्। अतः अवगाहरूपं नभ आधारभूतं सदपि द्रव्याधेयाभावाल्लोकाभावोऽस्तीति। [षड्द्र्व्य वर्णनम्] [७] (व्याख्या) तत्र जीवपुद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुर्धर्मास्तिकायः स चासङ्ख्येयलोकप्रदेशप्रमाणोऽस्ति। तथा स्थितिपरिणतानां जीवपुद्गलानां स्थित्युयष्टम्भहेतुरधर्मास्तिकायः स चासङ्ख्यप्रदेशी लोकाकाशप्रमाणोऽस्ति। तथा सर्वद्रव्यानामाधारभूतोऽस्ति जीवपुद्गलादीनाम् अवगाहोपष्टम्भकोऽम्बरास्तिकायः, स चानन्तप्रदेशी लोकालोकप्रमाणोऽस्ति। यत्र जीवादयो वर्तन्ते स लोकोऽसङ्ख्यप्रदेशप्रमाणः, ततः परमलोकोऽस्ति केवलाकाशप्रदेशव्यूहरूपोऽनन्तप्रदेशात्मकप्रमाणः। चेतनालक्षणो जीवः, चेतना च ज्ञानदर्शनोपयोगिकः अनन्तपर्याय-परिणामिककर्तृत्वभोक्तृत्वादिलक्षणान्वितोऽसङ्ख्यप्रदेशात्मको जीवः, ते अनन्ता भवन्ति। १. यहां पर देवप्रकृति वदितुपियेत्येत्यादि का शब्दार्थ स्पष्ट नहीं होता है। भावार्थ स्पष्ट है। यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति। इस प्रकार तत्त्वार्थसूत्रभाष्य में पाठ है। २. यहां पर लोकाकाशे आधाराधेयभावेन व्याप्यव्यापकभावेन वा ऐसा पद अधिक सुसंगत लगता है। ३. यहां द्रव्याभाव पाठ होना चाहिए। अलोक में द्रव्याभाव है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy