________________
उपाध्यायश्रीचारित्रनन्दीविरचिता स्वोपज्ञ'कलिकाप्रकाश'वृत्तियुता
स्याद्वादपुष्पकलिका
[१] वाजीचमूभूपकुलेंौं गभस्तिं सुदर्शनज्ञानसमन्वितं च। माणिक्यरत्नद्युतिदेहरोचिं चारित्रपार्श्वं प्रणमामि नित्यम् ॥१॥ दुर्भेद्यदुःकर्मरजःसमीरं नरामरेन्द्रार्चितपादपद्मम्। ज्ञानार्कद्रव्यार्थविभासकं च नमाम्यहं श्रीजिनवर्धमानम्॥२॥ श्रीद्वादशाङ्गश्रुतिरत्नगेहं विज्ञाय तत्त्वं निजभावलीनम्। स्याद्वादपक्षप्रविभासकं च सुधर्मसूरीन्द्रमहं नमामि॥३॥ श्रीमद्गणेशाननपद्मलीनां विद्वज्जनानां सुरकल्पवल्लीम्। कवीश्वराणां वरकामधेनुं श्रीभारतीं भक्तिभरैः स्मरामि॥४॥ चन्द्रे कुले वाचकवंशभानुं नौनिध्युपाध्यायमहं प्रणम्य। स्वोपज्ञस्याद्वादलतान्तकस्य व्याख्यां विरच्ये कलिकाप्रकाशम्॥५॥
[२] (व्याख्या) इह केचिद् दुष्कर्मजालप्रतिबद्धानादिकालमिथ्याशासनीयधूर्तजनयुद्ग्राहितचित् षड्द्रव्याणि यथार्थभावा(वेना)नुभवन्तोऽपि न प्रतिपद्यन्ते । अतस्तन्निर्णयार्थं स्याद्वादपुष्पकलिकाप्रकरणं करोमि। यद्यपि पूर्वाचार्यनिर्मितषड्दर्शनसमुच्चयरत्नाकरावतारतत्त्वार्थानेकान्तजयपताकादयो बहवो ग्रन्थाः क्लिष्टतरा विद्वज्जनचित्ताह्लादकाः सन्ति, अतो बालबोधाय समासतः प्रकरणकरणमिच्छुः नमस्काररूपमङ्गलार्थाय प्रथमां कारिकामाह
=
॥श्री गुरुभ्यो नमः॥श्री सरस्वत्यै नमः॥ [मङ्गलाचरणम्]
[३] [मूल] नत्वा संयमवामेयं गुरुं नौनिधिवाचकम्।
स्याद्वादपुष्पकलिकां दर्शयामि जिनागमात्॥१॥
(व्याख्या) अहं = वाचकचारित्रः स्याद्वादपुष्पकलिकाभिधानं प्रकरणं जिनागमात् = जिनप्रवचनाद् दर्शयामि
प्रत्यक्षेण यथार्थं प्रकटं करिष्यामि । किं कृत्वा ? संयमवामेयं नौनिधिवाचकं गुरुं नत्वा प्रणम्येत्यर्थः। पुष्पाणां कलिका पुष्पकलिका, स्याद्वाद एव पुष्पकलिका स्याद्वादपुष्पकलिका तामिति । वामाया अपत्यं पुमान् वामेयः, संयमश्चासौ वामेयश्च संयमवामेयस्तं चारित्रतीर्थाधिपं चारित्रपार्श्वनाथमित्यर्थः । नौनिधिश्चासौ वाचकश्च नौनिधिवाचकस्तं स्वगुरुमित्यर्थ इति गाथार्थः॥१॥
१. अश्वसेनराज्ञः कुले ।
[उद्देशग्रन्थः]
[४] [मूल] धर्माधर्मव्योमजीवपुद्गलाद्धा भवन्ति च।
रसोन्मितानि द्रव्याणि लोको द्रव्यात्मकः स्मृतः ॥२॥