________________
८
[नयानां सप्त भेदाः]
[१९] [मूल] द्रव्यपर्याययोर्भेदा नयैः सन्ति महीधराः । नैगमसङ्ग्रहव्यवहारर्जुसूत्रकानि च॥१७॥ [मूल] द्रव्यार्थिकोऽस्ति चत्वारः सत्पर्यायार्थिकस्त्रिधा। शब्दसमभिरुदैवम्भूतभेदेन विद्यते॥१८॥ (व्याख्या) तत्र द्रव्यार्थिको नैगमसङ्ग्रहव्यवहार - ऋजुसूत्रभेदैश्चतुर्विधो भवति । पर्यायार्थिकः शब्दसमभिरूढैवम्भूतभेदैस्त्रिविधोऽस्तीत्यर्थः।
१) धर्मयोर्धर्मिणोः धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगम इति । पर्याययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नैको गमो = बोधमार्गो यस्यासौ नैकगमो नाम नयो बोधव्यः ।
२) सामान्यमात्रग्राही परामर्श: सङ्ग्रह इति । सामान्यमात्रं समग्रविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः। सम् = एकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति सङ्ग्रहः। स्वजातेर्दृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं [स] सङ्ग्रहः।
३) सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहार इति । वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्र इति । ऋजु अतीतानागतकाललक्षणकौटिल्यवैकल्यात्प्राञ्जलम् अवैहि (ति) द्रव्यं सदति गुणाभावान्न पर्येति पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ।
४) ऋजु
=
स्याद्वादपुष्पकलिका
[२०] ५) कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ।
६) पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरुढ इति । शब्दनयो हि पर्यायभेदेऽप्यर्थाऽभेदमभ्युपैति। समभिरुढस्तु पर्यायभेदेन भिन्नार्थमभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति।
७) शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थं वाच्यत्वेन अभ्युपगच्छन्नेवम्भूत इति। समभिरूढस्तु इन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभ्युपैति, एवम्भूतः पुनरिन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते।
=
[२१] एतेषु प्रथमे चत्वारोऽर्थप्रतिपादनादर्थनयाः, त्रयोऽन्त्यास्तु शब्दार्थप्रतिपादनाच्छब्दनयाः सन्ति। तथा पूर्वः पूर्वो नयः प्रचुरगोचरोऽस्ति, परः परस्त्वल्पविषयोऽस्तीत्यर्थः । तथा रत्नाकरावतारिकायां नैगमादिनयास्त्रयो द्रव्यार्थिका भवन्ति, शेषास्तु चत्वारः पर्यायार्थिकाः सन्तीत्यप्युक्तम्। तथाहि - स व्याससमासाभ्यां द्विप्रकारः । स व्यासतोऽनेकविकल्पः। समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च । आद्यो नैगमसङ्ग्रहव्यवहारभेदात्त्रिविधः। द्वितीयः ऋजुसूत्रशब्दसमभिरूढैवम्भूतभेदाच्चतुर्विध इत्यादीति()।
तथा विशेषावश्यकेऽप्युक्तम्
१. यहां पर सामान्यमात्रग्राही परामर्श: सङ्ग्रह इति यह पाठ अधिक उचित लगता है।
२. यहां पर अवैहि की जगह अवैति पाठ उचित लगता है।
नामाइतियं दव्वट्ठियस्स भावो य पज्जवणयस्स। णेगम - संगह-ववहारा पढमगस्स सेसा य इयरस्स॥ इति (वि.आ.भा.७५)
३. यहां पर द्रव्यं सदति गुणाभावान्न पर्यति की जगह द्रव्यं सदपि गुणाभावान्न पर्येति यह पाठ समुचित लगता है।
४. यहां पर परः परस्त्वल्प विषयोऽस्तीत्यर्थः इस तरह का पाठ उचित लगता है।,
५. उल्लिखित उद्धरण प्रमाणनय में इस प्रकार है- पर्यायार्थिकश्चतुर्धा .... परि. ७ सू. २७/
६. भेदाच्चतुर्विधेत्यादि की जगह भेदाच्चतुर्विध इत्यादि पाठ उचित लगता है।
७. णेगम इति नास्ति।