________________
प्रथमं परिशिष्टम्
गतिष्वपि पञ्च पञ्च भावाः सन्ति शिवालये। परिणामक्षायिकौ स्तो भावद्वारं निरूपितम्॥२३१॥ गतिस्थितेषु जीवेषु सर्वे भावा भवन्ति च। परिणाम क्षायिकौस्तो जीवेषु मोक्षपत्तने॥२३२॥ इति मूलभावाः॥ मिथ्यासास्वादनमिश्राव्रतदेशव्रताभिधाः। प्रमत्तान्यौ निवृत्त्यन्यौ सूक्ष्मोपशमक्षीणकाः॥२३३॥ गुणाः सयोग्ययोगी च भवन्ति जिनशासने। लोके भवस्थजीवस्य परिणामविशेषकाः॥२३४॥ मिश्रोदयपरिणामा भावाः सन्ति गुणत्रिके। तथा व्रतादीभगुणे पञ्च भावा भवन्ति च॥२३५॥ क्षीणे भवन्ति चत्वारो विमुच्योपशमं तथा। विहाय मिश्रोपशमं त्रयो भावान्त्यके द्विके॥२३६॥ मिथ्यासास्वादने सन्ति दिग्भेदा मिश्रकस्य च। चक्ष्वचक्ष्वज्ञानत्रिकं दानादिशरलब्धयः॥२३७॥ मिश्रे स्यमिश्रसम्यक्त्वं दर्शनज्ञानगप्तिकमा दानादिलब्धयः पञ्च तर्येऽपि द्वादशस्तथा॥२३८॥ व्रतद्वादशक्षेपेण पञ्चमे स्यस्त्रयोदश। चतर्दश पर्ययेन षष्ठमे सप्तमे गणे॥२३९॥ निवृत्त्यादित्रिकगुणे क्षायोपशमकं विना। संयमाभावयोगेन द्वादश स्युर्गुणद्विके॥२४०॥ नखाधिकैको मिथ्यात्वे औदयिकस्य विंशतिः। भेदा भवन्ति द्वितीये मिथ्यात्वाभावयोगतः॥२४१॥ ततीयाब्ध्योर्दशखगा मक्त्वाज्ञानं च पञ्चमे। नारकामरभावेन भवन्त्यद्रिदशोदया:॥२४२॥ सुतिर्यक्सं)यमाभावात्षष्ठमेषुदशो भवेत्। निकृष्टलेश्याभावेन सप्तमे सन्ति द्वादशः॥२४३॥ तेज:पद्मविहीनेन मातङ्गनवमे दश। वेदादिमकषायाग्निहीनाः स्युर्दशमेऽब्धयः॥२४४॥ लोभाभावात्त्रयो भेदा भवन्त्युपरिमत्रिके। शुक्लाभावेन चरमे भेदौ द्वौ भवतः खलु॥२४५॥ तूर्याद्युपशमान्तेषु भावश्चोपशमो भवेत्। नवमैकादशान्ते स्यात्संयमोपशमं नरान्॥२४६॥ तूर्याद्यष्टगुणस्थाने क्षायिकदर्शनं भवेत्। क्षीणे क्षायिकयोगेन क्षायिकसंयमोऽपि हि॥२४७॥ दानादिलब्धयः पञ्च सम्यक्त्वं केवलद्विकम्। संयमं च सन्ति भेदाः क्षायिकस्यान्त्यके द्विक॥२४८॥ जीवभव्याभव्यभेदा मिथ्यात्वे च त्रयं भवेत्। द्वितीयात्क्षीणमोहान्तं मुक्त्वाभव्यमुभौ तथा॥२४९॥ विहाय भव्यं जीवोऽस्ति गुणस्थानेऽन्त्यके द्विके। इत्थमेते पञ्च भावा गुणस्थानेषु निर्ममे॥२५०॥ इति परिणामिकभेदाः॥ गुप्त्यम्बरादब्धियुगगुप्तिपञ्चाब्धिपावकयोगेन सप्तमे त्रिंशन्नखादद्रिगजाधिकाः॥२५१॥ नखाद्युगाधिकनखा दिशो खेटानलाधिकः। द्वादशान्त्ये गुणे भेदा भवन्ति सन्निपातिकाः॥२५२॥ इति भावद्वारम्॥ जीवो भवेज्जीवद्रव्यः शेषाः पञ्चाप्यजीवकाः। सर्वे द्रव्याधिकारेण व्याख्या द्रव्यानुयोगकाः॥२५३॥ धर्मादिष्वम्बरं द्रव्यं लोकालोकप्रमाणकम्। क्षेत्ररूपमस्ति शेषाः सन्ति निःक्षेत्रलक्षणाः॥२५४॥ रुद्रद्वारानुसारेण सद्भावार्थमुपेत्य च। विमुच्य पुद्गलानन्दं निजभावं समाचर॥२५५॥ जीवा दुर्नययोगेन मिथ्याशासनसङ्गताः। बोधिबीजं परित्यज्य भ्रमन्ति भवकानने॥२५६॥ ततः श्रुतगुरुं लब्ध्वा विनयैर्गुरुभक्तितः। द्रव्यभावार्थमालम्ब्य श्रुतबोधमुपार्जय॥२५७॥ जीवाजीवस्वरूपं च विज्ञाय ज्ञपरिज्ञया। निजात्मगुणवित्तेन भजध्वं श्रेय(यो) मन्दिरम्॥२५८॥ स्याद्वादपुष्पकलिका प्रवचनाद्विनिर्ममे। बालबोधाय लेशेन तत्त्वावगमाय च॥२५९॥ कोटकेन्दकुले रम्ये श्रीवंशोत्तमवाचके। निध्युपाध्यायस्य शिष्यश्चक्रे वाचकसंयमः॥२६०॥
१. यहां पर तिर्यगसंयमाभावात् पाठ अधिक संगत लगता है।