________________
९०
स्याद्वादपुष्पकलिका
वर्तमानक्षणस्थायिपर्यायमात्रमादृतः । ऋजुसूत्रनयग्राही विपरीतं वदेद्यदा॥२००॥ दृष्टिज्ञानकषायाणामुपयुक्तो यदा भवेत् । ऋजुसूत्राभासकः स्यात्कालस्थोऽन्योक्तिसौगताः॥२०१॥ पर्यायैकस्य प्राग्भावस्तिरोभावान्यग्राहकः । काललिङ्गादिभेदेन शब्दार्थ : शब्दको भवेत् ॥ २०२ ॥ लिङ्गत्रिवाक्प्रत्ययाद्यैः संयुक्तार्थमुपैति यः । तद्भेदेऽपि तमेवार्थं शब्दाभासस्तमादरात्॥२०३॥ यः पर्यायध्वनीनां च यावन्माना (अ)भिधेयकाः । तन्नानात्वं स्वीकुर्वाणो रूढाभासः स उच्यते॥२०४॥ पदार्थानां नामभेदं प्रेक्ष्य भिन्नार्थको वदेत्। एवम्भूताभासकः स प्रोच्यते जिनशासने॥२०५॥ शब्दक्षेप्यर्थाभिधायी वदेदर्थनयस्तथा । शब्दाभिधाय्यर्थक्षेपी शब्दाभास स उच्यते ॥ २०६॥ अर्पितानर्पिताभासावन्योन्यं प्रतिक्षेपतः । तत्त्वव्यवहारयोः क्षेपात्स्युर्व्यवहारविनिश्चयौ॥२०७॥ ज्ञानं गृह्णन्क्रियाक्षेपाज्ज्ञानाभासो निगद्यते । ज्ञानक्षेपात्क्रियां गच्छन्क्रियाभासो वदेद् बुधः॥२०८॥ नैगमादिसप्तनयाः पूर्वानुपूर्वयोगतः । पूर्वः प्रभूतविषयः परोऽल्पविषयो भवेत् ॥२०९॥ अंशग्राही नैगमोऽस्ति सत्ताग्राहकः सङ्ग्रहः । गुणलोकप्रवृत्त्योर्यो ग्राही स्याद् व्यवहारकः॥२१०॥ ऋजुसूत्रो भवेद्धेतुपरिणामसमादृतः । व्यक्तकार्यग्राहकः स्याच्छब्दो भावप्रवृत्तिकः॥२११॥ पर्यायान्तरको भिन्नकार्यग्राही च षष्ठमः । तद्गतमुख्यकार्यस्य ग्राह्येवम्भूतको भवेत्॥२१२॥ इत्याद्यनेकसद्रूपो नयवादो जिनागमे। विधानप्रतिषेधाभ्यां सप्तभङ्ग्यो भवन्ति च॥२१३॥ इत्थं नयविचारश्च समासेन प्ररूपितः । लोके समग्रभावेषु भवेत्स्याद्वादशासने॥२१४॥ इति नयाः ॥
तत्प्रत्यक्षपरोक्षाभ्यां प्रमाणं द्विविधं स्मृतम्। अतीन्द्रियं च प्रत्यक्षमक्षजन्यं परं भवेत्॥२१५॥ तत्र देशसमग्राभ्यां प्रत्यक्षं द्विविधं श्रुतौ । देशाववधिपर्यायौ समग्रं केवलं भवेत्॥२१६॥ मतिश्रुताभिधानेन परोक्षं द्विविधं स्मृतम्। अनुमानोपमानागमार्थापत्त्यब्धयो भवेत्॥२१७॥ लिङ्गपरामर्शकं स्यादनुमानप्रमाणकम्। गिरौ धूमाङ्कमादृत्य साध्यतेऽसौ कृशानुमान्॥२१८॥ गोसादृश्यत्वभावेन अदृष्टगवयाकृतिः । ज्ञानं स्याद्गवयं प्रेक्ष्य भवेत्तदुपमानकम् ॥ २१९॥ यथार्थवस्तुभावज्ञो वीतरागो जिनेश्वरः । तदुक्ताः सकला वाचः स्यादागमप्रमाणकम्॥२२०॥ यथा पीनो देवदत्तो वासरे तु न भुज्यते । अर्थान्नक्ताशनो ज्ञातस्तदर्थापत्तिकं भवेत्॥२२१॥ नयप्रमाणकादीनां परिपाटीमुपेत्य यत्। जीवाजीवादिभावज्ञः तज्ज्ञैस्तज्ज्ञानमुच्यते॥२२२॥ जिनोक्ततत्त्वश्रद्धानं तत् सम्यग्दर्शनं वदेत् । यथार्थहेयोपादेयैः स्वरूपरमणात्मकम्॥२२३॥ परसङ्गत्यागपूर्वं निजात्मरमणात्मकम्। संयमं साधनादेतत् सिद्धिर्भवति नान्यथा॥२२४॥ स्वपरव्यवसायि ज्ञानं प्रमाणं वदेच्छ्रुतौ । इष्टान्यवस्तुविज्ञानस्वीकारान्यक्षमं तथा ॥ २२५॥ सर्वनयस्वरूपस्य ग्राहकं यत्प्रमाणकम्। पारिणामिकभावेन प्रमाता चेतनो भवेत् ॥ २२६॥ स्वदेहमानमात्रोऽस्ति क्षेत्रं प्रति विभिन्नतः । रत्नत्रयसाधनेन जीवः सिद्धिं समश्नुते ॥ २२७॥ इति प्रमाणद्वारम्॥
धर्माधर्माभ्रकालेषु भावोऽस्ति पारिणामिकः । भावोदयपरिणामौ नयनौ पुद्गले भवेत्॥ २२८ ॥ पुद्गले च परिणामः स्कन्धेष्वादिस्वभावतः। तथाविहायोपशमं भावाः स्युर्विघ्नावरणेऽब्धयः॥२२९॥ नामगोत्रायुर्वेदेषु त्यक्तोपशममिश्रकम् । त्रयो भावाः पञ्च मोहे भवन्ति जिनशासने ॥ २३० ॥
१. यह श्लोक सं. प्रत में नहीं है।