________________
प्रथमं परिशिष्टम्
गुणानां साधकावस्थारूपः शुद्धप्रवृत्तिकः । गुणश्रेण्यारोहकादिः सा भवेत्साधना वरा ॥ १६९॥ गुणज्ञानाद्यभिन्नेन सद्भूतव्यवहारकः । व्यवहारोऽसद्भूतः स्याद्यगुणान्यसमन्वितः॥१७०॥ संश्लेषितोऽशुद्धरूपोऽहं शरीरीति प्रोच्यते। पुत्राद्यसंश्लिष्टरूपोऽसद्भूतः स्याद्भवे खलु॥१७१॥ एवं पञ्चास्तिकायेषु योज्यो मेधानुसारतः । व्यवहारस्वरूपश्च (ञ्च) समासेन विनिर्ममे॥१७२॥ सुज्ञानबोधरूपो यः प्रवदेदृजुसूत्रकः । सम्प्रतिकालमाश्रित्य गदेद्भावनयो ह्ययम् ॥ १७३॥ भूतहेतुं समादृत्य कार्यमागामिकं तथा। वर्तते जन्यजनकै ऋजुसूत्रः स उच्यते ॥ १७४॥ वर्तमानग्राहकः स्यात्स नामादिश्चतुर्विधः । पूर्वोक्तयुक्त्या संयोज्यः पञ्चास्तिकायिकेषु च॥१७५॥ शब्दस्य योऽस्ति वाच्यार्थः प्रधानस्तत्परिग्रहः । वस्तु त्वाहूयतेऽनेन स शब्दः प्रोच्यतेऽधुना ॥१७६॥ शब्दस्य यो नयो व्यक्तः स शब्दनयबोधकः । प्रत्युत्पन्नं वर्तमानं शब्दः पूर्ववदिच्छति॥१७७॥ पृथुबुध्नाकारयुतं सुलिप्तं मृन्मयादिना । पाथोर्णाद्याकृष्टशक्यं स भावघटमिच्छति॥१७८॥ नामाद्यनिलकुम्भानि तद्भावेच्छुः स नेच्छति। तच्छब्दार्थप्रधानोऽयं चेष्टालक्षणमिच्छति॥१७९॥ निक्षेपोदधिमादृत्य गौणेन घटमिच्छति। ऋजुसूत्रो वर्तमानसमयग्राहको भवेत्॥१८०॥ शब्दार्थग्राहकः शब्दो भावनिक्षेपग्राहकः। सद्भावासद्भावतः स्याद्धर्मानेकसमन्वितः॥१८१॥ द्रव्यादिषु स्वभावैश्च नित्यानित्यादिभेदतः। सप्तभङ्ग्यः प्रयोज्याश्च पूर्वोक्तास्ते भवन्ति च ॥१८२॥ एकैकैस्त्रिविकल्पाश्च युगयोगैस्त्रयस्तथा । त्रिकसंयोगतस्त्वैको भङ्गाः सन्ति महीधराः ॥ १८३॥ एवं समग्रभावेषु गुणपर्यायद्रव्यकैः। भवन्त्यनेकाद्रिभङ्ग्यो ज्ञातव्या मतियोगतः॥१८४॥ इति शब्दनयः ॥
या या सञ्ज्ञा द्रव्यकाणां लक्षणेन निगद्यते। सञ्ज्ञान्तरार्थविमुखः सैव पश्यति षष्ठमः (१) ॥१८५॥ नरः समभिरूढज्ञः पर्यायैकमपेक्ष्य च। न भवेत्सर्वपर्यायवाचको मिश्रदोषतः ॥ १८६॥ वाच्यार्थस्य वाचको यः स तथैव प्रवर्तते । विशिनष्ट्यैवम्भूतज्ञो वदेदतिशयैर्जिनः ॥ १८७॥ कुम्भाकृतियुतः कुम्भः शुचिपाथोर्णविभृतः । नारीशिरः स्थितश्चेष्टां कुर्वन्स कुम्भमिच्छति॥१८८॥ इत्येवम्भूतनयः॥
प्राधान्यार्थेन प्रथमे चत्वारोऽर्थनयाः स्मृताः । शब्दादयः शब्दमुख्याच्छब्दाः सन्ति जिनागमे ॥ १८९॥ नैगमाद्याश्च चत्वारः सामान्यार्थसमादरात्। अविशुम भवन्त्यत्र त्रयः शुद्धा विशेषतः॥१९०॥ इति सप्तनयाः ॥
यः पर्यायप्रतिक्षेपी द्रव्यमात्रसमादृतः। द्रव्यार्थिकाभासरूपः प्रोच्यते श्रुतिसागरे॥१९१॥ तथा द्रव्यप्रतिक्षेपी पर्यायमात्रग्राहकः । तत्पर्यायार्थिकाभासो विज्ञेयोऽस्ति द्वितीयकः ॥१९२॥ धर्मधर्मिकादीनामेकान्तिपार्थिक्ययोगतः। प्रोच्यते नैगमाभासो नैगमस्यावभासतः॥१९३॥ सत्त्वं चैतन्यभिन्नेऽपि सामान्यमात्रग्राहकः। सत्तापरामर्शरूपः प्रोच्यते सङ्ग्रहो बुधैः ॥ १९४॥ स परापरभेदाभ्यां युगभेदः समादृतः। सन्मात्रग्राहको द्रव्यं भाषते परसङ्ग्रहः ॥१९५॥ चैतन्यलक्षणो जीवो गद्यतेऽपरसङ्ग्रहः। सत्ताद्वैतं स्वीकुर्वाणो द्रव्यान्यं यो न मन्यते॥१९६॥ स्वमत्याद्वैतभावेन साङ्ख्यनैयायिकादयः । प्रोच्यन्ते सङ्ग्रहाभासः स्याद्वादपक्षिका बुधाः॥१९७॥ अत्रावान्तरसामान्यं स्वीकुर्वाणा बलाज्जनाः । विशेषं नावमन्यन्ते पारिणामिकतादयः॥१९८॥ सङ्ग्रहादृतभावानां परमार्थमजानतः । द्रव्यपर्यायभागं च योऽभिप्रैति स पञ्चमः॥ १९९॥
८९