________________
सर्वसिद्धान्तस्तवः
महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्येऽङ्गमनङ्गजैत्रम् ॥१०॥ (इन्द्रवज्रा)
(अव०) उच्चै० आचारविचारचारु-योगाद्यनुष्ठानपूर्वं यथा स्यादेवम् । आचारप्रतिपादकत्वादाचारं नाम आद्यमङ्गम् अहं प्रपद्ये-श्रये किं विशिष्टं ? उच्चै० उच्चस्तराः शब्दार्थाभ्यां अतिशायिन्यः उदञ्चिता:=प्रकटीकृताः पञ्चचूडा येन तत् उक्तशेषानुवादिनोऽधिकार विशेषाश्चूडासञ्जाः । पुनः किं विशिष्टं ? महा० महापरिज्ञानामाध्ययनं तत्रस्था आकाशगामिनी विद्या यस्यां, तत एवोद्धृत्य श्रीवज्रस्वामिना प्रभावना कृता ॥१०॥ [मू०] त्रिषष्ठिसंयुक्तशतत्रयीमित
प्रवादिदर्याद्रिविभेदहादिनीम् । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृताङ्गमाद्रिये ॥११॥ (इन्द्रवंशा)
( अव०) त्रिष० द्वय श्रुतस्कन्धमयं = श्रुतस्कन्धद्वयरूपं सूत्रकृताङ्गं शिवश्रिये कृतस्पृहोऽहं आद्रिये आश्रयामि । किं विशिष्टं ? त्रिष० त्रिषष्ठ्यधिकशतत्रयमितां प्रवादिनः क्रियावादिप्रभृतयः यदुक्तं
असीससयं किरिआणं अकिरियवाईण होइ चूलसीई। अन्नाणीसत्तसट्ठी वेणइआणं य बत्तीसं ॥
तेषां दर्पादिविभिदे हादिनीं वज्रसमम् ॥११॥ [मू०] स्थानाङ्गाय दशस्थानस्थापिताखिलवस्तुने ।
नमामि' कामितफलप्रदानसुरशाखिने ॥१२॥ (अनुष्टुप् ) (अव०) स्थानां० कामितफलप्रदानसुरशाखिने, तिष्ठन्ति प्रति