SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सर्वसिद्धान्तस्तवः (अव०) पिण्डस्य=आहारस्य विधिः = दोषरहितत्वेन विशुद्धिस्तज्ज्ञाने सम्पूर्ण-कौशलवितरणासक्तां, ललि० सुकोमलानां पदानां श्रुतिः-श्रवणं तया मृष्टां= २ मधुराम् । पिण्डनिर्युक्ति वयमभिष्टुमः ॥६॥ [मू०] प्रवचननाटकनान्दीप्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दलयतु १ नन्दिरानन्दम् ॥७॥ ( आर्या ) (अव० ) प्रव० प्रवचनं-जिनमतमेव नाटकं तत्र नान्दी= द्वादशतूर्यनिर्घोषस्तन्मूलत्वान्नाटकस्य, प्रपञ्चितं प्रकटीकृतं ज्ञानपञ्चकस्य = मतिश्रुतावधि-मनःपर्याय-केवलज्ञानरूपस्य सतत्त्वं=स्वरूपं यया । सा नन्दीरस्माकं अमन्दतमं=बहुतरं आनन्दं कन्दलयतु=वर्धयतु ॥७॥ [मू०] अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥८॥ ( आर्या ) ( अव० ) अनु० श्रुतमेव सौधं = गृहं तदारोहे सोपानरूपाणि । अपुनर्भवपुरस्य= मोक्षनगरस्य द्वाराणीवाऽनुयोगद्वाराणि जीयासुः ||८|| [ मू० ] अनवमनवमरससुधाहूदिनीं षट्त्रिंशदुत्तराध्ययनीम् । अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥ ९ ॥ ( आर्या ) (अव०) अन० अनवरमो = रम्यो यो नवमरसः-शान्ताख्यः१ स एव सुधा=अमृतं तस्या हूदिनीं = नदीं षट्त्रि० षट्त्रिंशतद् यानि उत्तराणि=प्रधानान्यध्ययनानि ताम् । अहम् अञ्चामि=पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमि श्रीपार्श्व - श्रीवीर - तीर्थवर्तिभिर्नारदादिभिः प्रणितानि अध्ययनविशेषान् (नि) ॥९॥ [मू० ] उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु ।
SR No.009264
Book TitleSarva Siddhanta Stava
Original Sutra AuthorN/A
AuthorJinprabhasuri, Somodaygani
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages69
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy