________________
७०
प्रशमरतिप्रकरणम्
षड्जीवकाययतना लौकिकसन्तानगौरवत्यागः । शीतोष्णादिपरीषहविजयः सम्यक्त्वमविकम्प्यम् ॥११४॥
( ११४ ) टीका-विभक्तस्याप्याचारस्य पञ्चधा नवब्रह्मचर्यात्मकस्याध्ययनार्थाधिकारद्वारेण पुनर्लेशोद्देशतोऽर्थमाचष्टे समासेन - षड्जीवकायेत्यादि । शस्त्रपरिज्ञायां षड् जीवनिकायाः पृथिव्यप्तेजोवायुवनस्पतित्रसाख्याः, तत्रादौ जीवास्तित्वप्रतिपादनं सामान्येन, ततः पृथिव्यादिकायस्वरूपव्यावर्णनम् । तद्बधात्संसारहेतुः कर्मबन्धः, तद्बधविरतिश्च मनोवाक्कायैः कृतकारितानुमतिपरिहारादिति षट्सु जीवनिकायेषु यतना प्रयत्नः तद्रक्षणे ज्ञानपूर्वको व्यापार इति । लोकविजये लौकिकसन्तानगौरवत्यागः । लौकिकसन्तानो मातृपित्रन्वयः । शेषाश्च स्वजनसम्बन्धेन २ पत्नीपुत्रादयस्तेषु गौरवमादरः स्नेहासक्तिस्तत्त्यागः ३ । तथा क्रोधमानमायालोभकषायविजयो विधेयो बलवता क्षमादिना बलेन । शीतोष्णीयाध्ययने शीतोष्णादिपरीषहविजयः क्षुत्पिपासादिपरीषहद्वाविंशतेर्विजयोऽभिभवः । तत्र स्त्रीसत्कारपरीषहौ भावतः शीतौ, विंशतिरुष्णाः शेषाः । सम्यक्त्वाध्ययने शङ्कादिशल्यशुद्धं तत्त्वार्थ श्रद्धानलक्षणं सम्यग्दर्शनमविकम्प्यं दृढं निश्चितं वर्ण्यते ॥११४॥
I
I
(११४) (वि०) एवं सामान्यतः प्रथमाङ्गार्थमाश्रित्य पञ्चधाऽऽचार उक्तः, अथ तस्यैवाध्ययनान्याश्रित्य बहुविधमाचारं बिभणिषुस्तावत्तस्य प्रथम श्रुतस्कन्धे नवाध्ययनानि सन्तीति तान्याश्रित्य नवविधत्वमार्याद्वयेनाह - षडिति । संसारादिति । षड्जीवकाययतना कार्येति शेषः । साधुनेति सर्वत्र प्रक्रम इति । शस्त्रपरिज्ञाख्ये प्रथमेऽध्ययन उक्तम् । तथा लोके-गृहस्थजने जातो लौकिकः स चासौ सन्तानश्च पितृपितामहपरम्परा तस्य गौरवम् - अभ्युत्थानादि तस्य त्यागः - परिहारः स तथा, कार्य इति शेषः, इति लोकविजयाख्ये द्वितीयेऽध्ययने उक्तम् । तथा शीतोष्णादिपरीषहः, आदिशब्दस्य प्रकारवचनार्थत्वात् द्वाविंशतिपरीषहा ग्राह्यास्तेषां विजयः - सहनेनाभिभवनं यः सः तथा, 'शीतोष्णीयाख्ये तृतीयेऽध्ययने भणितमिदमिति । तथा सम्यक्त्वमविकम्प्यम्-अविचलं धार्यं इति चतुर्थे सम्यक्त्वाख्येऽध्ययने उक्तम् इति ॥११४॥
( ११४ ) ( अव० ) - १ शस्त्रपरिज्ञा नाम आद्याध्ययनार्थे सङ्क्षेपेण ३ मातापित्रादे: ४ गौरवाणाम् ऋद्ध्यादीनां षड्जीवकाययतना प्रथमेऽध्ययने, 'गौरवत्यागो द्वितीये, ६ परीषहविजयस्तृतीये, दृढसम्यक्त्वं चतुर्थे ॥११४॥