________________
प्रशमरतिप्रकरणम्
इति गुणदोषविपर्यासदर्शनाद्विषयमूच्छितो ह्यात्मा । भवपरिवर्तनभीरुभिराचारमवेक्ष्य परिरक्ष्यः ॥११२॥ सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः । पञ्चविधोऽयं विधिवत् साध्वाचारः समधिगम्यः ॥११३॥
(११२) टीका-इति गुणदोषेत्यादि । इति इत्थं गुणान् दोषरूपेण यः पश्यति दोषांश्च गुणरूपेण प्रेक्षते, विपर्यासदर्शनाद् वैपरीत्यं तु बुध्यते । विषयेषु शब्दादिषु मूच्छितस्तन्मयतां गतः अयम्-आत्मा, भवः संसारस्तत्र परिवर्तनं नरकादिषु जन्ममरणप्रबन्धस्तस्माद्विभ्यद्भिराचारमवेक्ष्य प्रथमानार्थमनुचिन्त्य । परिरक्ष्यः परिपालनीय इति ॥११२॥
(११३) टीका-स चाचारार्थः पञ्चप्रकार इति दर्शयति समासेन–सम्यक्त्वेति । १तत्र तत्त्वार्थश्रद्धानलक्षणः सम्यक्त्वाचारस्तदुपगृहीतो मत्यादिज्ञानपञ्चकाचारः अष्टविधकर्मचयरिक्तीकरणाच्च चारित्राचारः । तपो द्वादशभेदमनशनादि तपआचारः । वीर्यमात्मशक्तिर्वीर्याचारः । एवमेव पञ्चप्रकाराचार: प्रथमानार्थः तीर्थकृद्भिरर्थतोऽभिहितः । तच्छिष्यैश्च सूत्रीकृतः । विधिवत्समनुगम्यो विज्ञेयः । कः पुनर्विधि: ? सूत्रग्रहणविधिः तावदष्टमयोगादिरर्थग्रहणविधिरनुयोगप्रस्थापनादिः । साधूनामाचारः साध्वाचारः अहोरात्राभ्यन्तरेऽनुष्ठेयः क्रियाकलाप इति ॥११३।।
(११२ ) (वि० ) इत्थं शिक्षितोऽप्यात्मा येषां शिक्षा न गृह्णाति तैस्तस्य यद्विधेयं तदाहइतीति । इति-इत्थं पूर्वोक्तन्यायेन गुणाश्च दोषाश्च गुणदोषाः तेषु ज्ञातेष्वपि विपर्यासो-गुणान् दोषरूपेण पश्यति दोषांश्च गुणरूपेणेति तस्य दर्शनं तस्मात्, विषयमूछितः-तन्मयतां गत आत्मा स्वः परिरक्ष्यः-परिपालनीय इत्यन्तपदेन सम्बन्धः । कैः ?-भवपरिवर्तनभीरुभिः-संसारमरणबिभ्यद्भिः किं कृत्वा ?-अवेक्ष्य-ज्ञात्वा । कम् ?-आचार-प्रथमानार्थं, हि-स्फुटमिति ॥११२॥
(११३) (वि०) आचारस्तु पञ्चधेति दर्शयति-सम्यक्त्वेति । सम्यक्त्वादि पञ्च पदानि सुबोधानि कृतद्वन्द्वसमासानि तान्यात्मा-स्वरूपं यस्य स तथा जिनैः प्रोक्तः पञ्चविधः-पञ्चप्रकारोऽयंपूर्वोक्तो विधिवद्-यथावत् । क्रियाविशेषणम् । साध्वाचार:-अहोरात्राभ्यन्तरेऽनुष्ठेयः क्रियाकलापः समधिगम्यो-विज्ञेय इति ॥११३।।
(११२) (अव०)-इत्थं गुणान् दोषरूपेण दोषांश्च गुणरूपेण यः पश्यति, गुणदोषविपरीतोपलब्धिः, 'प्रथममङ्गं विलोक्य परिरक्ष्यः ॥११२॥
(११३) (अव०)-विधिना विज्ञेयः ॥११३॥