________________
प्रशमरतिप्रकरणम्
विषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्यः । द्विगुणोऽपि च नित्यमनुग्रहोऽनवद्यश्च सञ्चिन्त्यः ॥१११॥
अथवा नियतमिति सर्वकालमेव २अनियतं मनुष्यतिरश्चामायुः । सम्प्रतितनानामेवमवगतानित्यतानामपि येषां विषयेषु रतिः सक्तिर्भवति । न तान्मानुषान् गणयेत् कुशलः । ३तिर्यञ्च एव हि ते, निर्बुद्धिकत्वादिति ॥११०।।
(१११) टीका-विषयपरिणामेत्यादि । मनोऽनुकूला ये विषया इष्टाः शब्दादयस्तेषां विषयाणां परिणामोऽनुप्रेक्ष्यः चिन्तनीय आलोचनीयः । इष्टपरिणामाः सन्तोऽनिष्टपरिणामा भवन्ति, अनिष्टपरिणामाश्चाभीष्टपरिणामा भवन्ति, नावस्थितः कश्चित्परिणामोऽस्ति । एवं चानवस्थितपरिणामविषयविरतौ सत्यामनुग्रहो द्विगुणोऽनवद्यश्च सञ्चिन्त्यः । अनुग्रहो गुणयोगः स च द्विगुणः बहुगुण एव द्विगुण एवोक्तः । द्विशब्दस्योपलक्षणत्वात् । अनवद्यश्चासौ पापबन्धाभावादित्यनुप्रेक्ष्यः ॥१११॥
तथा अनियतं तिर्यङ्मनुष्याणां, पदे पदे-स्थाने स्थाने, अथवा नियतं-सर्वकालमेवावीचीमरणरूपं, समये समये आयु:क्षयात्, येषां विषयेषु रतिर्भवति-स्वास्थ्यं जायते न तान् मानुषान् गणयेत् कुशलः, तिर्यञ्च एव हि ते, निर्बुद्धिकत्वादिति ॥११०॥
(१११) (वि०) तेषामेवोपदेशमाह-विषयेति । विषयेषु-शब्दादिषु परिणामःअध्यवसायस्तस्य नियमो-निवृत्तिः सोऽनुप्रेक्ष्यः-पर्यालोचनीयः, कर्तव्य इति तात्पर्यम् । जीवेनेति शेषः । केषु विषयेषु ?-मनसोऽनुकूलविषयेषु, विषयाधारत्वाद्विषयाः-स्त्र्यादयस्तेष्वित्यर्थः । अर्थवशेन विभक्तिपरिणामात्, तत्र विषयपरिणामनियमे किम् ?-अनुग्रहो-गुणयोगो नित्यं सञ्चिन्त्यःपरिभावनीय इति योगः । कीदृशः ?-द्विगुणो-द्वाभ्यां लोकालोकाकाशाभ्यां गुण्यत इति द्विगुणोऽनन्तगुण इत्यर्थः । तथा अनवद्यश्च । अपि चेत्यभ्युच्चय इति । अन्ये त्वाहुः-विषयाणां परिणामः-शुभानामशुभत्वेनाशुभानां शुभत्वेन भवनं तस्मिन् सति नियमो न मयैते भोक्तव्या इत्येवंरूपोऽनुप्रेक्ष्यः-अनुप्रेक्षणीयः, कर्तव्य इत्यर्थ इति योगः । केषु केषु विषयेषु नियम: ?मनोऽनुकूलविषयेषु । तत्र च विषयपरिणामनियमे सत्यनुग्रहश्च द्विगुणोऽनवद्यः सञ्चिन्त्यः-सञ्चिन्तनीय इति ॥१११॥ इति मदस्थानाधिकारः ॥७॥
(१११) (अव०)-इष्टपरिणामाः सन्तोऽनिष्टपरिणामाः, अनिष्टपरिणामा' अभीष्टपरिणामाः । आलोचनीयः सर्वक्षेत्रावस्थाभावित्वात् । एवं चानवस्थितपरिणामविषयविरतौ अनुग्रहो गुणयोगतः, २उपलाक्षण्याद् बहुगुणः, चित्तप्रसन्नता ॥१११॥