________________
प्रशमरतिप्रकरणम्
तद्वदुपचारसम्भृतरम्यकरागरससेविता विषयाः । भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ॥१०९॥ अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान् मानुषान् गणयेत् ॥११०॥
६७
४शीधुप्रसन्नादि वा तत्पेयं यत्रास्त्यन्ने तत्पेयवदन्नम् । स्वादु मधुरादि ' रससंयुक्तम् । विषव्यतिमिश्रं भुक्तम् । विपाककाले परिणतिसमये यथा विनाशयति ॥ १०८॥
(१०९) टीका-दान्तिकमर्थं दृष्टान्तेन समीकरोति - तद्वदुपचारेत्यादि । उपचारश्चाटुकर्म विनयप्रतिपत्तिस्तेनोपचारेण सम्भृतं बहुकृतम् । रम्यं रमणीयत्वमतिशयप्रीतिहेतुत्वम् । रागः स्नेहविशेषः तस्य रसोऽतिशयः । उपचारसम्भृतरम्यकाः १ रागरसेन सेविता उपभुक्ता विषयाः शब्दादयः । सकृन्मरणकारित्वात् विषान्नदृष्टान्तं दूरीकरोति पश्चार्द्धेन। भवशतानां परम्पराः पद्धतयः तास्तु दुःखेन विपाकेन अनुबन्धकरणशीला दुःखाविच्छेदकारिण इति ॥ १०९ ॥
(११० ) टीका - अपि पश्यतामित्यादि । पश्यतामपि समक्षं प्रत्यक्षेण प्रमाणेन । मरणं नियकालमनियतकालं च । देवनारकाणां नियतमेव । अनियतकालं मनुष्याणां तिरश्चां च । पदे पदे स्थाने स्थाने नारकादिजन्मनि । आर्यानार्यादिभेदे गोमहिष्यजाविकादिभेदे च । विपाककाले-परिणतिप्रस्तावे, किमित्याह - विनाशयति- मारयति, भोक्तारमिति शेष इति ॥१०८॥
(१०९) (वि० ) दान्तिकमाह - तद्वदिति । तद्वत्-तथा उपचारेण - चटुकर्मविनयप्रतिपत्त्यादिना संहृतः-पिण्डीकृतः सम्भृतो वा - बह्वीकृतो रम्यको - रमणीयः स चासौ रागश्च-प्रीतिस्तस्य रसः-अतिशयानुभवनं तेन सेविता - भुक्ता, क एवंविधा ? इत्याह-विषयाः - शब्दादयः, एवम्भूताः सन्तः । कासु कीदृशा ? इत्याह- भवशतानां - जन्मशतानां अनन्तानां परम्पराः-पद्धतयस्तासु । अपिशब्दः सम्भावने | दुःखस्य - असातस्य विपाकः - अनुभवनं तस्य - अनुबन्धः सातत्यं तत्कराःविधायकास्ते तथा, अत्रुटितदुःखार्पका भवन्तीति शेष इति ॥१०९॥
( ११० ) ( वि० ) अथ विषयासक्तानामुपायेन शिक्षामाह- अपीति । अपेर्व्यत्ययेन सम्बन्धः । ततः पश्यतामपि समक्षं - प्रत्यक्षं मरणमिति सम्बन्धः । कीदृशम् ? - नियतं देवनारकाणां,
(१०९) (अव० )–उपचारश्चाटुकर्मविनयप्रतिपत्तिः १ शयनासनादिः सम्भृतपिण्डितरम्यकानि रतिकराणि, अविच्छेदकारिणः ॥१०९॥
( ११० ) ( अव० )–देवनारकाणां नियतकालम्, अनियतकालम् मनुष्यतिरश्चाम् ॥११०॥