________________
६६
प्रशमरतिप्रकरणम्
यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः ॥१०७॥ यद्वच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत् स्वादु । विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥ १०८॥
(१०७) टीका–ननु चोपभुज्यमानाः 'सुखलेशोपभोक्तारमनुगृह्णन्ते२ विषया ३इत्यारेकिते पठति-यद्यपि निषेव्येत्यादि । निषेव्यमाणा उपभुज्यमानाः क्षणमात्रं यद्यपि मनोहर्षं जनयन्ति तथापि पश्चाद्विपाककाले आपातरमणीया अपि सन्तः किम्पाकफलभक्षणोपमाः । किम्पाकतरुफलानि हि ४ रसनाग्रेण लिह्यमानानि स्वादूनि सुरभीणि च परिणतिकाले परासुतया योजयन्ति । अतो दुरन्ता दुःखान्ता इत्यर्थः ॥ १०७॥
(१०८) टीका - तथापरं निदर्शनमाह - यद्वदिति । शाकं तीमनमष्टादशं यस्य २ अन्नस्य तच्छाकाष्टादशमन्नम् । बहुभक्ष्यं मोदकामलसारकादि, पेयं पानकविशेषः
(१०७) (वि०) यद्यप्यभ्युदया एते तथापि पर्यन्तेऽतिदारुणा इति `दृष्टान्तेनावेदयन्नाह यद्यपीति। यद्यपीत्यार्यार्द्धं स्पष्टार्थं, किम्पाकफलान्यादौ मृष्टान्यन्ते मारणात्मकानि तेषामदनं-भक्षणं तद्वद्भवन्ति। पश्चादतिदुरन्ता इति च व्यक्तमिति ॥१०७॥
(१०८) (वि०) अथ निदर्शनान्तरमाह - यद्वेत्यादि । यद्वद्- यथा शाकं - तीमनमष्टादशं यस्य तत्तथा । किं तदित्याह - अन्नम् - आहारः, अष्टादशभेदास्त्वेते
॥१०८॥
सूयो यणो २ जवन्नं ३ तिन्नि य मंसाणि ६ गोरसो ७ जूसो ८ । भक्खं ९ गुललावणिया १० मूलफला ११ हरियगं १२ डाओ १३ ॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १५ पाणगं चेव १७ । अट्ठारसमं सागं १८ निरुवहओ लोइओ पिण्डो ॥ (सूपौदनौ यवान्नं त्रिणि च मांसानि गोरसो यूषः । भक्ष्या गुडलावणिका मूलफला हरितकाण्डानि ॥ भवति रसालुश्च तथा पानं पानीयं पानकं चैव । अष्टादशमं शाकं निरुपहतो लौकिकः पिण्डः ॥ )
-
तथा बहूनि अनेकानि भक्ष्याणि - मोदकादीनि पेयानि - पानकविशेषा विद्यन्ते यत्र तद्बहुभक्ष्यपेयवत्, तथा स्वादु - मधुरम्, एवंविधमपि विषसंयुक्तं - गरमिश्रं भुक्तम्-अभ्यवहृतं सत्
(१०७ ) ( अव० ) – दुःखान्ताः ॥१०७॥
(१०८) (अव०)—-शाकोऽष्टादशो यत्र तीमनं, मोदकाम्लकरसादि स्वादु, परिणतिसमये