________________
प्रशमरतिप्रकरणम्
आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः ।
निकषे विषया बीभत्सकरुणलज्जाभयप्रायाः ॥१०६॥
६५
हृदयेनापि बाढं व्यग्रहृदयेनापि सता । निश्चयेन यथावद्विज्ञायैतानिह परत्र चापायबहुलान् शब्दादिविषयान् । आगमः कार्यः । आगमो भगवदर्हत्सर्वज्ञप्रणीतोऽभ्यसितव्यः कार्यस्ततश्चैषामात्यन्तिकः स्वात्मनि प्रलयो भवत्यनेनाभ्युपायेनेति ॥१०५॥
( १०६ ) टीका - कथं पुनरनिष्टा विषया इत्याह-: -आदावत्यभ्युदयेत्यादि । आदौ प्रथमं 'कुतूहलोत्सुकतया अत्यभ्युदयानुत्सवभूतान् मन्यते, उत्सव आगमिष्यतीति भवत्यानन्दश्चित्तस्य प्रथमम् । मध्ये विषयप्राप्तौ सत्यां शृङ्गार-वेषाभरण - कुचकण्ठाश्लेष- मुखचुम्बन-कररुँहक्षतप्रहार-परिहास-प्रणय-कोपादिमत्त्वाद्दीप्तरसाः । निकषे इति विशिष्टसंयोगोत्तरकालं विषयाः स्पर्शादयः प्रतिभान्ति बीभत्सा निर्वसनत्वात् प्रकटगुदवराङ्गविकृतदर्शनात् । करुणास्तु बहुविलापविस्वरक्वणनश्रवणात् करुणाश्रयत्वादनुकम्पापात्रत्वात् परिसमाप्तप्रयोजना' च त्वरिततरमादत्ते त्रपावती निवसनादि, बिभेति च गुरुजनादाशङ्कते मां मैवंविधामद्राक्षीत्कश्चिदिति । एवमेते विषया बीभत्सा:१° करुणलैज्जाभयायासबहुलाः पर्यन्ते । मध्येऽप्युदिततीव्रमोहवेदनाः । आरम्भे कुतूहलौत्सुक्यभावाः । न जातुचित्स्वास्थ्यमापादयन्तीति त्याज्याः ॥१०६॥
I
व्याख्या पूर्ववदिति । अन्ये त्वेवम् अनिष्टविषयाभिकाङ्क्षिणां भोगिनामिति पाठान्तरं व्याख्यान्ति यथा इति विशेषणानां जीवानां सुव्याकुलहृदयेन सह, अपिः पूरणे, विरहस्तत्र तस्मात् कथं स्यादिति प्रश्ने प्रत्युत्तरं निश्चयेनागमः कार्यः ॥१०५॥
(१०६) (वि०) कथं पुनरनिष्टा विषया इत्याह- आदाविति । आदौ -प्रथमतः कुतूहलादुत्सुकतया अत्यभ्युदया- उत्सवभूता भवन्ति इति द्वितीयार्यायां सम्बन्धः । मध्ये - विषयप्राप्तौ शृङ्गारहास्याभ्यां– वेषाभरण - समस्तशरीरावयवस्पर्शन - प्रहासाभ्यां दीप्तरसा - अत्युत्कटानुभवाः, सैव क्रिया पूर्वपदेषु योज्या । निकषे - संयोगोत्तरकालं विषयाः - स्पर्शादयो बीभत्सकरुणलज्जाभयानि कृतद्वन्द्वानि तानि तथा तै रसैः प्राया - बहुलास्ते तथा, तत्र बीभत्सो - विरूपता तथाविधाङ्गदर्शनात्, करुणो निर्दयदन्तनखक्षतावलोकनात्, लज्जा झगिति वस्त्रग्रहणात्, भयं तु मा केनचिद् दृष्टः स्यादिति ॥१०६॥
(१०६ ) ( अव० ) - औत्सुक्यकारकाः प्रकटोल्बणस्नेहरागाः, निकषे=प्रान्ते, बीभत्सादिभिर्बहुलाः ॥१०६॥