________________
६४
प्रशमरतिप्रकरणम्
तस्माद् रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् ॥१०४॥ तत्कथमनिष्टविषयाभिकाङ्क्षिणा भोगिना वियोगो वै ।
सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः ॥१०५॥ (१०४) टीका-यस्मादनालोचितगुणदोष एवंविधो भवति–तस्मादिति । यस्मादेवं तस्माद्यथा रागद्वेषयोरात्यन्तिकस्त्यागो भवति तथानुष्ठेयम् । पञ्चेन्द्रियबलं च यथा प्रशाम्यति नोवृत्तशक्तिर्भवति तथा शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् । शुभ एव परिणामो यथा ३कुलदेशविज्ञानादिरवाप्यते शुभपरिणामावस्थानस्य यो हेतुस्तस्य हेतोः प्रयत्नेनावाप्तिर्यथा स्यात् ५तथा चेष्टितव्यमिति ॥१०४।।
(१०५) टीका-१तत्कथं चेष्टितव्यमित्याह-तत्कथमित्यादि । अनिष्टा विषया वक्ष्यमाणेन न्यायेन तानाकाङ्क्षत्यभिलषति तेनानिष्टविषयाभिकाक्षिणा भोगिना २भोगासक्तेन कथमात्यन्तिको वियोगः स्यादेभिः सहेति । वैशब्द: पादपूरणः । सुष्ठ व्याकुल
(१०४) (वि०) यस्मादित्युक्तं तस्मादिति । तस्मात्-ततः कारणात् घटितव्यं-घटना कार्या । क्व ?-रागद्वेषत्यागे तथा पञ्चेन्द्रियप्रशमने च । किमर्थम् ?-शुभपरिणामावस्थितिहेतोःशुभपरिणत्यवस्थाननिमित्तमिति ॥१०४॥
(१०५) (वि०) तत्कथं घटितव्यमिति पूर्वोक्तार्यया सम्बन्धः केन ?-भोगिनाभोगासक्तेन । कीदृशेन ?-अनिष्टाश्च ते वक्ष्यमाणन्यायेन विषयाश्च प्रसिद्धस्वरूपास्ते तथा 'तानभिकाङ्क्षति-अभिलषति तेनेत्येका पृच्छा । कथमात्यन्तिको वियोगो-विरह: स्यादेभिः सहेति शेषो वै पूरणे इति द्वितीया पृच्छा । अत्रोत्तरमाह-तेन भोगिना कीदृशेन ?-सुष्ठ व्याकुलितहृदयेनापिबाढं व्यग्रचित्तेनापि सता निश्चयेन-एकान्तेन, किम् ?-आगम:-सिद्धान्तः कार्य:-अभ्यसितव्यः, ततस्तेषामात्यन्तिकः प्रलयः स्यादिति । यद्वा तत् कथं वियोगः स्यादिति शेषः । कयोः ? - रागद्वेषयोः प्रक्रमगम्ययोः पूर्ववदिति प्रश्ने निर्वचनमाह-आगमः कार्य इति पूर्ववत् । केन कार्यः ?भोगिना । कीदृशेन ?-अनिष्टविषयाभिकाक्षिणा । तथा सुव्याकुलहृदयेनापि निश्चयेनेति पदानां
(१०४) (अव०)-घटितव्यं चेष्टितव्यम् ॥१०४॥
(१०५) (अव०)-तत्कथं चेष्टितव्यमित्याह-अनिष्टविषयाभिकाक्षिणा, भोगिनाभोगासक्तेन सह वियोगो विषयाणां कथं स्याद् इति प्रश्ने । आगमोऽभ्यसनीयः । अतिबाढं व्यग्रहृदयेनापि यथावद्विज्ञायैतानपायबहलानागमोऽभ्यसनीयः ॥१०५॥