________________
प्रशमरतिप्रकरणम्
अपरिगणितगुणदोषः स्वपरोभयबाधको भवति यस्मात् ।
पञ्चेन्द्रियबलविबलो रागद्वेषोदयनिबद्धः ॥१०३॥ शकयवनकिरातादिरनार्यः । कुलमिक्ष्वाकुहरिवंशादिकम् । २सलक्षणावयवसन्निवेशविशेषो देहः, अपर: कुब्जहुण्डवामनादिः । विज्ञानं 'विस्पष्टो बोधो जीवादिपदार्थविषयः, अपर: प्रकृष्टाज्ञानपरिगतः किञ्चिज्ज्ञः । दीर्घणायुषा यथाकालविभागवर्तिना युक्तः, अपरस्तु गर्भकौमारयौवनावस्थादिषु अनियतायुः । बलं शारीरादि तेन सम्पन्नो वीर्यवान्, अपरो निर्बलः स्वशरीरकमपि कथञ्चिद्धारयति । भोगवान् एक इष्टशब्दादिसम्पदुपभोगसमर्थः, अपरो भोगरहितः सतोऽपि वा भोगानसमर्थो भोक्तुम् । हिरण्यसुवर्णधनधान्यादिविभूतियुक्तः एकः, अपरो दारिद्रयाभिभूतो १°जरद्दण्डीखण्डनिवसनः । एषां देशादीनां समृद्धिपर्यन्तानां वैषम्यं विषमतां विलोक्य कर्मोदयजनितां । कथं केन प्रकारेण । विदुषां बुद्धिमतां नारकादिभवसंसारे रतिः प्रीतिर्भवति । कर्मोदयनिमित्तं शुभाशुभलक्षणं देशादि विज्ञायोद्वेगः ११संसारात् कार्यः । तस्माद्धर्मानुष्ठानादर एव श्रेयानिति ।।१०२।।
(१०३ ) टीका-तथापरं वैराग्यकारणमादर्शयन्नाह-अपरिगणितेत्यादि । गुणाश्च दोषाश्च गुणदोषाः । अपरिगणिता अनादृता गुणदोषा येनासौ अपरिगणितगुणदोषः । प्रेक्षापूर्वकारी गुणान् दोषांश्च विचार्य गुणेषु प्रवर्तते दोषान् परिहरति । यश्चानालोचितगुणदोषः स खलु स्वपरोभयबाधको भवति, स्वमात्मानं बाधते ५यथाऽयं प्रवृत्तस्तथाहमपि प्रवर्तेयेति(?)ग् [यथाहं प्रवृत्तस्तथान्यमपि प्रवर्तयामीति] परमपि बाधते । विबलः विगतबलः पञ्चेन्द्रियबलेन महताभिभूतत्वादुन्मार्गयायिनान्येन बलेन मार्गे प्रतिपादयितुमशक्य इति विगतबलः । रागद्वेषोदये निबद्धो नियमितः रागद्वेषपरिणत इत्यर्थः ।।१०३।।
कथमिह विदुषां भवसंसारे-नरकादिसंसृतौ रतिर्भवति ?, न भवत्येवेत्यर्थः ॥१०२।।
(१०३) (वि०) तथा अपरिगणितेति । अपरिगणिता-अनादृता गुणदोषा येन स तथा । ईदृशः सन् किमित्यत आह-स्वश्च-आत्मा परश्च-अन्यस्तौ तथा, तावेवोभयं तस्य बाधकः-पीडाकारी भवति यस्मात्कारणात् । तथा पञ्चेन्द्रियबलेन विबलो-विगतबलः स तथा । पञ्चेन्द्रियाणि जेतुं न शक्त इत्यर्थः । तथा रागद्वेषयोः पूर्वोक्तयोरुदयः-अनुभवनं तेन निबद्धो-नियन्त्रितः स तथा । सदोत्कृष्टरागद्वेष इत्यर्थः ॥१०३।।
(१०३) (अव० )-अनादृतगुणदोषः, एवंविधो जीवः पञ्चेन्द्रियाणां निजनिजविषयगार्यं तेन विबलो गतशुभपरिणामः रागद्वेषोदयनियन्त्रितः ॥१०३॥