________________
६२
प्रशमरतिप्रकरणम्
कर्मोदयनिर्वृत्तं हीनोत्तममध्यमं मनुष्याणाम् । तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥१०१॥ देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् ।
दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवति ? ॥१०२॥
(१०१) टीका-कर्मोदयवशाच्च हीनादिजातिषु जन्म भवति नाकस्मादिति दर्शयति-कर्मोदयनिर्वृत्तमित्यादीति । कर्मशब्देन गोत्रमेवाभिसम्बध्यते । हीनं नीचैर्गोत्र'कर्मोदयात्, उत्तममुच्चैर्गोत्रकर्मोदयात्, मध्यमं व्यतिमिश्रकर्मोदयात् । मनुष्याणां तिरश्चां च त्रिविधमपि भवति 'तद्विधमेव तिरश्चामिति वचनात् । जघन्योत्तममध्यममित्यर्थः I योनिविशेषान्तरविभक्तमिति तिर्यग्योनिभेदेन मनुष्ययोनिभेदेन च विभक्तं कृतविभागम् । २विशेषस्तु तिरश्चामेकद्वित्रिचतुःपञ्चेन्द्रियाख्यानां, मनुष्याणां ४ सम्मूर्च्छनजगर्भजा इति विशेषाः । “अन्तरशब्दोऽन्यत्वप्रतिपादनार्थ इति कारिकाशतं विवृतम् ॥ १०१ ॥
( १०२ ) टीका-एवमुक्तेन न्यायेन हीनादिजन्मप्रतिपत्तिः कर्मोदयजनितेति महद्वैराग्यकारणं, तथेदमपरं वैराग्यस्य निमित्तमाख्याति – देशकुलेत्यादि । देशो मगधाङ्गबङ्गकलिङ्गादिरार्यः,
(१०१ ) ( वि० ) ततश्च किं भवति - कर्मोदयेति । कर्मणः - प्रक्रमाद् गोत्रस्य उदयेननीचैस्तथोच्चैस्तथा मध्यमतया च विपाकेन निर्वृत्तं निष्पन्नं यत्तत् तथेति । किं तदेवंविधमित्याहहीनोत्तममध्यममिति समाहारद्वन्द्वः तस्य भावस्तत्त्वं, त्वप्रत्ययो लुप्तो द्रष्टव्यः । केषां ? - मनुष्याणां, भवतीत्यत्रोत्तरवाक्ये च शेषो दृश्यः । तथा तद्विधमेव तत्प्रकारमेव । केषाम् ?-तिरश्चाम्एकेन्द्रियादीनां च, 'हीनत्वादीति योज्यम् । कथंभूतमित्याह-योनिः - उत्पत्तिस्थानं तस्या विशेषाः, तिरश्चामेकद्वित्रिचतुष्पञ्चेन्द्रियाख्याः मनुष्याणां तु सम्मूर्छनजगर्भजरूपाः, उपलक्षणत्वाद्देवनारकाणां च, तेषां अन्तरम्-अन्यत्वं तेन विभक्तं - कृतविभागमिति समासः ॥१०१॥
(१०२) (वि०) तथा अपरमपि वैराग्यनिमित्तमाख्यातम् - देशेति । देशादीनामष्टानां पदानां कृतद्वन्द्वसमासानां सुबोधानां वैषम्यं - विसदृशतां शुभाशुभतामित्यर्थो दृष्ट्वा - अवलोक्य
+
( १०१ ) ( अव० )–कर्मशब्देन गोत्रमेव तद्रूपमेव योनिविशेषाश्चतुरशीतिलक्षाः तदन्तरैः कृतविभागम् ॥१०१॥
( १०२ ) ( अव० )-देशादीनां समृद्धिपर्यन्तानां विषमतां विलोक्य, भवसंसरणे ॥१०२॥ (पूर्वसम्पादकीया टीप्पणी) ज्ञायतेऽनेनैकस्या आर्यायाः प्रक्षिप्तत्वं का च सेति न निर्णीयते
यत एता यावद्विवृता एव दृश्यन्ते सर्वा अपि, जाज्ञायते तेन विवृतिरपि प्रक्षेपकेणैव कृत्वा प्राक्षेपि । सुदृढं चेदं येन प्रान्ते पुस्तकादर्शेषु दरिदृश्यते द्वादशोत्तरमार्याशतत्रयमित्युल्लेखः ।