________________
प्रशमरतिप्रकरणम्
सर्वमदस्थानानां मूलोद्धातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्च सन्त्याज्यः ॥१९॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥१००॥
(९९) टीका-सर्वमदस्थानेत्यादि । तस्मात्सर्वेषां जात्यादिमदस्थानानामष्टानामपि यन्मूलं बीजं गर्वाख्यं तदुपघातो विनाशस्तदर्थिना मानकषायविजयार्थिना । सदा सर्वकालम् । यतिना मोक्षसाधनप्रवृत्तेन प्रयत्नवता । आत्मगुणैर्जात्यादिभिरुत्कर्षो गर्वः । परेषां च परिवादोऽवर्णभाषणं परिभवः परित्यजनीय इति ॥९९।।
(१००) टीका-कस्मात्पुनः १परपरिवादस्त्यज्यत इत्याह-परपरिभवेत्यादि । परस्य परिभवो न्यत्कारः किमनेन जात्यादिहीनेनेति । परिवादस्त्वर्णभाषणम्-‘एवं चैवं चायमकरणीयं करोति' । आत्मनश्चोत्कर्षाज्जात्यादिभिरुत्कृष्टताख्यापनात् । बध्यते समादीयते कर्म नीचैर्गोत्राख्यम् । यत्र यत्रोत्पद्यते तत्र तत्र हीनजातिषु म्लेच्छदासचाण्डालादिषु तदनुभवति । ततश्च कर्ममयत्वात्संसारस्य तत्कृतं संसारपरिभ्रमणं जन्मजरामरणप्रबन्धम् । प्रतिभयमिति भयाभिमुखं सर्वत्र भीतियुक्तम् । अथवा प्रतिभवं भवे भवे इत्यर्थः । भवानां जन्मनां कोटिः । अनेका चासौ भवकोटिश्चेति अनेकभवकोटिः । भवकोट्याऽनेकया दुर्मोचं दुर्मोक्षं नानुभवितुं शक्यमित्यर्थः । 'नामगोत्रयोविंशतिकोटिकोट्यः स्थितिः' इति वचनात्३ (तत्त्वार्थ-८-१७)॥१००॥
(९९) (वि०) ततश्च-सर्वेति । सर्वमदस्थानानां पूर्वोक्तस्वरूपाणां मूलोद्धातार्थिनाआदित एव विनाशमभिलषता सदा-सर्वदा यतिना-साधुना । किं कार्यमित्याह-आत्मगुणैरुत्कर्षः परपरिवादश्च सन्त्याज्यः इति प्रकटमिति ॥१९॥
(१००) (वि०) किमेतौ सन्त्याज्यावित्याह-परेति । परिभवो-न्यक्कारः परिवादःअवर्णवादभाषणं ततः समाहारद्वन्द्वः । परेषाम्-आत्मव्यतिरिक्तानां परिभवपरिवाद परपरिभवपरिवादं तस्मात्, तथा आत्मोत्कर्षात्-स्वबहुमानाच्च बध्यते कर्म । कीदृशम् ?-नीचैर्गोत्रं-सप्तमं कर्म, इदं च मुख्यवृत्त्योक्तम् , गौणवृत्त्या त्वन्यान्यपि यथाऽनुरूपं बध्यन्ते । किमेकस्मिन्नेव भवे ?, नेत्याहप्रतिभवं-प्रतिजन्म यथा भवति । पुनः कीदृशम् ?-अनेकाभि:-प्रभूताभिः भवानां-जन्मनां कोटिभिः-सङ्ख्याविशेषैर्दुर्मोचं-दुस्त्यजमिति ॥१००॥
(९९) (अव०)-जात्यादीनां बीज विनाशाय, सततं मुनिनोद्यतेन आत्मना समुत्कर्षः, परेषां दूषणोद्घोषणं च ॥१९॥
(१००) (अव०)-परतिरस्कारः, भवे भवे, कोटिरानन्त्यसूचकः ॥१०॥