________________
प्रशमरतिप्रकरणम्
जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥९८॥
(९८) टीका-जात्यादिमदेत्यादीति । जात्यादिनाऽष्टप्रकारेण मदेनोन्मत्तो हृत्पूरभक्षणपित्तोदयाद् व्याकुलीकृतकरणपुरुषवत् पिशाचवद्वा भवति दुःखितश्चेह । कश्चिच्छुचिपिशाचको व्यर्दको जनाकीर्णं प्रदेशमुत्सृज्य समुद्रमध्यवतिनं द्वीपमनुप्रविष्टः । तत्र चैको वणिग्विभिन्नपोतः प्रथमतरं गतः। तत्र चेक्षुवाटाः प्रभूतास्तद्रसपानात् केवलाद् गुडशकलानीव गुदमुखेन विसृष्टानि । पुरीषपरिणामान्तराणि तानि तथाऽवलोक्य स 'चोक्षकपिशाचश्चखाद स्वादूनि, तृप्तश्चास्ते प्रतिदिवसम् । दृष्टश्च कालान्तरेण हिण्डमानो वणिक् । ततश्चोद्विग्नस्तस्मादपि "स्थानाद् विनिर्गतोऽन्यं 'द्वीपमगमत् । तत्रापि वल्गुल्यादिचूषितानि फलानि भुक्तवानेवं यत्र यत्र प्रयाति तत्र तत्र दुःखभाक् । एवंविधश्च परभवेऽपि हीनजात्यादिष्वेवोत्पद्यते११ इति न युक्तो जात्यादिमदः१२ ॥९८॥
(९८) (वि०) तथा-जात्याद्यष्टप्रकारेण मदेनोन्मत्तः-परवशः स तथा । पिशाचवत् सूचकत्वात्सूत्रस्य शुचिपिशाचाभिधानद्विजवद् भवति-जायते दुःखितो-दुःखभाक् । 'क्व ? इहअत्रैव जन्मनि । कथानकं चैवं यथा-क्वापि स्थाने शुचिपिशाचाभिधो द्विजः, अत्र वसतामशुचिरेवेति मत्वा जनाकीर्णदेशमुत्सृज्य समुद्रवर्तिद्वीपमनुप्रविष्टः । तत्र चैको वणिक् भिन्नपोतः प्रथमतरं गत आस्ते । तत्र चेक्षुवाटाः प्रचुराः सन्ति । तद्रसपानात् केवलाद् गुडशकलानीव गुदमुखेन तेन निसृष्टानि पुरीषरूपाणि । तानि चालोक्य स चोक्षकः शुचिपिशाचश्चखाद । तृप्तश्चास्ते प्रत्यहम् । दृष्टश्च कालान्तरेण हिण्डमानो वणिक्, पृष्टश्च किमत्रागमनप्रयोजनम् ? । वणिजाऽभ्यधायि पोतभङ्गादत्रायातः । पुनः पृष्ट:-कथं तव भुक्तियुक्तिः ?, वणिजोक्तं-इक्षुरसास्वादनेन । पुनरुक्तं भवान् कथमायातः ? । तेनाप्युक्तं-जनाकीर्णेऽशुचिरिति कृत्वाऽत्रायातः । अपर उवाच-कथमाहारमन्तरेणात्र स्थीयते ? । ततस्तेनाभाणि-प्रत्यहमिक्षुफलानि भक्षयंस्तिष्ठामि । ततश्चाश्चर्यसम्पन्नेन तेनोक्तं-ममापि तानि दर्शयेति । ततो वणिङ्निसृष्टानि पुरीषाणि दर्शितवान् । ततो विहस्य वणिजोक्तं-ममेदं पुरीषं भवता प्रत्यहं भक्ष्यते । अहो ! शोभनः शुचिवादस्तव । ततश्चोद्विग्नमानसस्तस्मादपि स्थानाद्विनिर्गतो द्वीपान्तरं गतः । तत्रापि वल्गुल्यादिचूषितानि फलानि भक्षितवान् । एवं यत्र यत्र प्रयाति तत्र तत्र दुःखभाक् जात इति । तथा परभवे च नि:संशयं जात्यादिहीनतां लभते-प्राप्नोतीति ॥९८॥
(९८)(अव०)-जात्यादिमदमत्तः शुचिपिशाचाभिधानद्विज इव दुःखभाग्भवति ॥९८॥१