________________
प्रशमरतिप्रकरणम्
सम्पर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः ? ॥१६॥ एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि ।
केवलमुन्मादः स्वहृदयस्य संसारवृद्धिश्च ॥१७॥ (९६) टीका-सम्पर्कोद्यमसुलभमित्यादि । आगमज्ञैर्बहुश्रुतैराचार्यादिभिः सह सम्पर्क: संसर्गः। उद्यम उत्साहोऽध्ययनेऽर्थश्रवणे च । सम्पर्कोद्यमाभ्यां सुलभमनायासेन प्राप्यं, चरणं मूलगुणाः, करणमुत्तरगुणास्तेषां साधकं निष्पादकम् । श्रुतज्ञानं लब्ध्वा समासाद्य । सर्वेषां जात्यादिमदानामपनयनकारि भूयः तेनैव कथं मदमादधीतात्मनि ? । न हि विषापहारिप्रयुज्यमानमगदं विषवृद्धि करोतीति ॥९६।।
(९७) टीका-एतेषु मदस्थानेष्वित्यादिति । जात्यादिष्वष्टसु मदस्थानेष्वेतेषु । निश्चये परमार्थविचारणायां पर्यवसाने वा, न खलु कश्चिद् गुणो दृश्यते ऐहिक आमुष्मिको वा । यदि नाम जातिविशिष्टा ततः किं स्यात् हीना चेत्ततोऽपि किम्? केवलमुन्मादः स्वहृदयस्य यदि परमुन्माद उन्मत्तता ग्रहाविष्टस्येव यत्किञ्चनप्रलापित्वं स्वहृदयस्येति । स्वचित्तपरिणामादेस्तानि मदस्थानानि भवन्तीति । स च स्वहृदयपरिणामो बहिर्वतिन्या वाकायचेष्टयाऽवगम्यते । ततश्च संसारवृद्धिजन्मजरामरणप्रबन्धः संसारस्तस्य वृद्धि: ५तद्दी/करणमिति ॥९७||
(९६) (वि०) सम्पर्केति । सम्पर्कश्च-पण्डितसंसर्गः उद्यमश्च-प्रोत्साहस्तौ तथा ताभ्यां सुलभं-सुप्रापम् । तथा चरणकरणयोः प्रसिद्धयोः साधकं-निर्वर्तकम् । किमेवंविधम् ?-श्रुतज्ञानम् । ततस्तल्लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः ? सर्वथा गर्वो न विधेयः । यत उक्तम्
ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः ?। अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥ इति ॥९६।।
(वि०) तदेवं प्रत्येकमार्याद्वयेनाष्टमदस्थानानां व्युदासमभिधाय साम्प्रतं संहत्य तामार्याद्वयेन' 'तमाह-एतेष्विति । जात्यादीति । एतेषु मदस्थानेषु निश्चये-परमार्थचिन्तायां न च गुणोऽस्ति कश्चिदपि ऐहिकादिः, केवलमुन्मादो भवति । कस्य ?-स्वहृदयस्य । तथा संसारवृद्धिश्चेति सुगममिति ॥९७॥
(९६) अव०-सम्पर्कश्च संसर्ग आचार्यादिभिः सह, उद्यमश्च प्रोत्साहः, मूलगुणा उत्तरगुणा-स्तेषां निष्पादकं प्राप्य श्रीजिनागमं सर्वेषां जात्यादिमदानां विनाशकं, श्रुतेनैव दर्पः किं क्रियते ? यतः
ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ॥१६॥