________________
प्रशमरतिप्रकरणम्
माषतुषोपाख्यानं श्रुतपर्यायप्ररूपणां चैव । श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुनेः ॥१५॥
यावन्ति चटुकर्माणि कृतानि तावन्त एव शोकाः शोकसमुदयस्तेन स्पृश्यते । शोकश्चित्तपीडाविशेषः ॥९४॥
(९५) टीका-माषतुषोपाख्यानमिति । स्वल्पेनापि श्रुतेन भावतो गृहीतेन जडमतिनापि निर्वाणं साध्यते । स ह्यसमर्थो बहुमागममध्येतुं करणजडत्वात् मेधाधारणाविरहाच्च । तस्यैवंविधस्य गुरुभिरनुकम्पया पदद्वयमर्पितं "मा रूष्य मा तुष्येति' रागद्वेषनिग्रहगर्भम् । तस्य तद् २कुट्टयतः करणवैकल्यादन्यथा स्थिरीभूतं माषतुषेति । श्रूयते च तस्य निर्वाणावाप्तिः। तस्माद्बह्वधीतं मयाऽर्थश्च ३परिज्ञात इति निष्कारणो गर्वः । श्रुतपर्यायप्ररूपणा चैवं श्रुतमागमस्तस्य पर्याया भेदाः । कश्चिदेकार्थव्याख्याकारी, कश्चिदर्थद्वयभाषी, तथाऽपरो बह्वाख्यायी एकस्यैव सूत्रस्येति । श्रुतपर्यायं चाकर्ण्य । अतिविस्मयकरं च विकरणं वैक्रियसिंहरूपनिर्माणं स्थूलभद्रमहर्षेर्भगिन्यायिकाणां दर्शनाय आगमाभियोगजनितलब्धिविकरणं श्रुतसम्प्रदायविच्छेदं च तस्य श्रुत्वा को नामैहिकोपाय६भीत्यापि श्रुतमदं कुर्यादिति ॥९५॥
कर्मताऽऽपन्नं वाल्लभ्यकविगमे शोकसमुदयो-दैन्यसमूह: परामृशति-आश्लिष्यति, शोकेनासौ गृह्यत इत्यर्थ इति ॥९४||
(९५) (वि०) श्रुतमदव्युदासमार्याद्वयेनाह-माषतुषोपाख्यानमिति । मदः कथं कार्य इति द्वितीयार्यायां' सम्बन्धः । किं कृत्वा ?-माषतुष इतिपदेन समयप्रसिद्धेनोपलक्षितः साधुस्तस्योपाख्यानं-कथानकं तत्तथा । तस्य हि माषतुषसाधोः श्रुतरहितस्यापि निर्वृत्तिर्जातेति श्रुत्वेति योगः । तथा श्रुतस्य-आगमस्य पर्याया-भेदा यथा-कश्चिदेकार्थवादी कश्चिद्बह्वर्थवादी एकस्यैव सूत्रस्य, तेषां प्ररूपणा-वर्तना तां, चैवेति समुच्चये । श्रुत्वा-आकर्ण्य तथाऽतिविस्मयकरंस्वाश्चर्यविधायकं । किं तत् ?-विकरणं च । चस्यात्र सम्बन्धः । विक्रियाकृतशेषश्रुतदाननिषेधमिति शेषः । श्रुत्वा । कस्य ?-स्थूलभद्रमुनेः, यथा तेन निजभगिन्या आत्मा सिंहकरणगर्वेण दर्शित इति ।।९५॥
(९५) (अव०)-श्रुतपर्याया भेदा अनन्तगुणादयोऽसङ्ख्यभवपरिच्छेदाः उपर्युपरि पश्यतः सर्वं दरिद्रमिति विदित्वा, विकरणं-विक्रियां कृतशेषश्रुतदाननिषेधमिति शेषः वैक्रियसिंहरूपनिर्माणम् ॥१५॥