SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् ५७ द्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन ? ॥१३॥ गर्वं परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥९४॥ (९३) टीका-द्रमकैरिव चटुकेत्यादि । रबैरिव । चाटुशब्देन समानार्थश्चटुशब्दोऽपि विद्यते । बहुलवचनाद्वा उकारः प्रत्ययो भवति । चटुकर्मैव चटुकर्मकम् । अनुवृत्तिस्तत्प्रयोजनानुष्ठानं तद्गुणप्रशंसा-विष्टरासनदानमित्येवं कुर्वाणो लोकस्य वल्लभो भवति । आचार्यादीनामागमाच्चोदितमभ्युत्थानादि क्रियमाणं चटुकर्म न दोषमावहति । उपकारो निमित्तं यस्य चटुकर्मणः तदुपकारनिमित्तकम्-उपकारोऽनेन प्राङ् मम कृतः करिष्यते वाऽतश्चटुकर्म करोति । परजनस्येति गृहस्थादिसूचनम् । तच्चटुकर्म कृत्वा यदवाप्यते वाल्लभ्यकम् । को मदस्तेनेति श्वेवावलेहनादिदायिनः पुरः स्थित्वा श्रवणपुच्छचालनादि । कृतोपकारस्य यद्वाल्लभ्यकमवाप्नोति किं तत्र चित्रमिति ? ॥९३॥ (९४) टीका-गर्वमिति । गर्वोऽभिमानो बहुजनवल्लभोऽहमिति परप्रसादेन जनितः। परो हि चटुकर्मकारिणः परितुष्टः कञ्चित्प्रसादं करोति वस्त्रान्नपानादिकम् । तावन्मात्रेण च गवितो भवति तं चटुकर्मकारिणम् । वाल्लभ्यकविगमे विगते वल्लभत्वे द्वेष्यत्वे जाते । शोकसमुदय परामृशति छुपति । तथाप्यनुवतितोऽयमेकपद एव नि:स्नेहो जातः । (९३) (वि०) वाल्लभ्यकमदत्याग उच्यते-द्रमकैरिति । को मदस्तेन, यत्किम् ?अवाप्यते-लभ्यते । किं तत् ?-वाल्लभ्यकं-वल्लभता। किं कृत्वा ? कृत्वा-विधाय । किं तत् ?चटुकर्मकं-कुत्सितं चटुकर्म चटुकर्मकं-कुत्सितं प्रियभाषणं 'चटु चाटु प्रियं वाक्यम्' इति वचनात् । कीदृशम् ?-उपकारो निमित्तं यस्य तत्तथा तदेवोपकारनिमित्तकम् । 'कस्यात आहपरजनस्य-गृहस्थादिलोकस्य । कैरिव ?-द्रमकैरिव-रङ्कवदिति ॥९३॥ (९४) (वि०) गर्व-दर्प यः कोऽपि विदध्यात्-कुर्यात् । केन ?-वाल्लभ्यकेन । कीदृशेन ?-परेषां-गृहस्थादीनां प्रसादः-तुष्टिः स आत्मा यस्य स तथा तेन । तं पुरुषं वाल्लभ्यकगवितं (९३) (अव० )-कुत्सितं प्रियं भाषणं चटुकर्म, उपकारो निमित्तं यस्य चटुकर्मणः, निमित्तं मातापितृसम्बन्धादिकं कृत्वा ॥१३॥ (९४) (अव०)-परजनप्रसन्नताजनितेन' स्पृश्यते ॥१४॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy