________________
५६
प्रशमरतिप्रकरणम्
पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ? ॥ ९२ ॥
युक्त्यनुसारिणी जिज्ञासा, आचार्यादिवचनविनिर्गतस्य शब्दार्थस्य सकृदेव ग्रहणं न द्वाभ्यां त्रिभिर्वा । एवमाद्येष्वित्यादिशब्दाद्धारणा परिगृह्यते । बुद्धेरङ्गानि शुश्रूषाप्रतिप्रश्नग्रहणादीनि । तेषां विधिविधानमागमेन प्रतिपादनम् । तस्य विधेर्विकल्पाः “तेषु कियन्तोऽनन्तैःपर्यायैवृद्धास्ते क्षयोपशमजा बुद्धिविकल्पाः परस्परमनन्तैः पर्यायैर्वृद्धाः, ६ असर्वपर्यायसर्वद्रव्यविषयत्वात् मतिश्रुतयोः समस्तरूपिद्रव्यनिबन्धनत्वाच्चावधेस्तदनन्तभागवर्तिरूपिद्रव्यनिबन्धनत्वा ̈न्मनःपर्यायबुद्धेरित्येवं बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु सत्सु ॥९१॥
(९२) टीका-पूर्वपुरुषसिंहेत्यादीति । पूर्वपुरुषा गणधरप्रभृतयश्चतुर्दशपूर्वधरादयो यावदेकादशाङ्गविदवसानाः । सिंहा इव सिंहाः । शौर्येणोपमानं परीषहकषायेन्द्रियकुरङ्गःयूथनिहननात् पूर्वपुरुषसिंहाः । विज्ञानातिशयो विज्ञानप्रकर्षः स एव सागरः समुद्रो विस्तीर्णत्वात् । अनन्तस्य भाव आनन्त्यं बहुत्वमित्यर्थः । क्षयोपशमजज्ञानस्य प्रकर्षापकर्षवत्त्वादनन्ता विज्ञानातिशयसागरा बहव इत्यर्थः । अथवा ज्ञाते सर्व श्रुतग्रन्थे वैक्रियतेजोलेश्याकाशगमनसम्भिन्नश्रोत्रादयोऽतिशया बहुप्रकारास्त एव सागराः एकस्याप्यतिशयस्य दुरवगाहत्वात् तदेतत्पूर्वपुरुषसिंहानां श्रुत्वा साम्प्रतपुरुषा दुःषमांशवर्तिनः कथम् ? केन प्रकारेण ? स्वल्पया स्वधिषणया माद्यन्तीति ॥९२॥
एवंरूपाणि तेषां विधयः - कारणानि तेषां विकल्पा - भेदास्तेषु । तथा किंविशिष्टेषु ?अनन्ता-बहवः पर्यायाः- स्वरूपविशेषास्ते वृद्धा - वृद्धिमुपगता येषु ते तथा तेष्विति । पूर्वपुरुषागौतमादयस्त एव सिंहा इव सिंहाः शौर्येणोपमानं परीषहकषायादिकुरङ्गनिहननात् पूर्वपुरुषसिंहास्तेषां विज्ञानातिशय: - अवबोधप्रकर्षः स एव सागरः - सिन्धुविस्तीर्णत्वात्तस्यानन्त्यं-बहुत्वम्, अथवा विज्ञाने सति वैक्रियतेजोनिसर्गाकाशगमनसम्भिन्नश्रोत्रादयोऽतिशयास्त एव सागर इति । शेषं तथैवेति ॥९१॥९२॥
कियत्सु ? अनन्तैः पर्यायैर्वृद्धास्ते क्षयोमशपजनितबुद्धिविशेषाः परस्परमनन्त पर्यायैर्वृद्धाः ३ ४एवं सत्सु स्वकीया कृतिः आदिशब्दाद्धारणा ॥९१॥
(९२) (अव० )- १ अनन्तस्य भाव आनन्त्यं विज्ञानातिशयस्य ॥९२॥