SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् ग्रहणोद्ग्राहणनवकृतिविचारणार्थावधारणाद्येषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥११॥ एवं लाभः परप्रसादात्मकः । लब्धमपि तदन्नादि किञ्चिदेवोपभोगान्तरं साधयति, न पुनराजीवितावधेस्तृप्ति करोति । एवं वस्त्रादेरप्यनित्यत्वात् किञ्चिदुपयोगयोग्यत्वम् । एवंविधेन लाभेन यतिवृषा यतिप्रधानभूताः विपुलेन विस्तीर्णेन बहुना, बहुना न मनागपि मदमुद्वहन्ति ॥१०॥ (९१) टीका-ग्रहणोद्ग्राहणेत्यादि । अपूर्वसूत्रार्थयोर्ग्रहणसमर्था' बुद्धिः, गृहीतं सूत्रमर्थो वा उद्ग्राह्योऽन्यस्मै प्रतिपाद्य: सुबुद्धिविशेषेण । नवकृतिरिति नवमभिनवं स्वयमेव प्रकरणाध्यायोपनिबन्धनादि करोति । विचारणा नाम सूक्ष्मेषु पदार्थेष्वात्मकर्मबन्धमोक्षादिषु भवति साधून् प्रति यदुत मुक्तिसाधका एते तत एतेभ्यो दत्तं बहुफलं भवतीति । तथा किञ्चिदुपयोगयोग्येन-स्तोककालमुपयोगसाधकेन, न पुनराजीवितान्तं, विपुलेनापि-विस्तीर्णेनापि यतिवृषाः-साधुप्रधानाः लाभेन मदं न गच्छन्ति ॥१०॥ (९१-९२) (वि०) बुद्धिमदत्यागमाह-ग्रहणोद्ग्राहणेति । पूर्वेति । कथं-केन प्रकारेण यान्ति । के ?-साम्प्रतपुरुषाः । कम् ?-मदम् । कया ?-स्वबुद्ध्या । किं कृत्वा ?श्रुत्वा । किं तत् ?-विज्ञानातिशयस्य सागरानन्त्यम् । केषाम् ?-पूर्वपुरुषसिंहानाम् । केषु विषयेषु-बुद्ध्यङ्गविधिविकल्पेषु, किंविधेषु ?-अनन्तपर्यायवृद्धेष्विति क्रियाकारकघटना । तत्र ग्रहणम्-उपाध्यायादिभिरुक्तस्य सूत्रादेरुपादानम् उद्ग्राहणं-प्रमाणोपन्यसनं, नवकृतिःनूतनकाव्यकरणं, विचारणं-जीवादिपदार्थविषयम्, अर्थावधारणम्-अभिधेयनिर्णयस्ततो ग्रहणादिपञ्चपदानां द्वन्द्वः । तानि आदीनि येषां विधिविकल्पानां ते तथा तेषु, बुद्धीनां पूर्वोक्तस्वरूपाणाम् चतसृणाम् अङ्गानि-शरीराणि 'सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हेइ ईहए वावि । तत्तो अपोहए वा धारेइ करेइ वा सव्वं ॥' (सुश्रूषति प्रतिपृच्छति शृणोति गृह्णाति ईहते वापि । ततोऽपोहते वा धारयति करोति वा सर्वम् ॥) (९१) (अव०) ग्रहणं-बहूनामपि पृथक् पृथग्वदतामपि पृथक् पृथक् शब्दोपलब्धिः , उद्ग्राहणं संस्कृतगद्यपद्यशब्दार्थाभिधानं, 'बुद्ध्यङ्गं प्रज्ञा शरीरं तस्य विधयः तेषां विचारा विकल्पास्तेषु च, बुद्धेरङ्गानि शुश्रूषादीनि तेषां विधिविधानम् आगमन प्रतिपादनं तस्य विधेर्विकल्पास्तेषु
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy