________________
५४
प्रशमरतिप्रकरणम्
उदयोपशमनिमित्तौ लाभालाभावनित्यकौ मत्वा । नालाभे वैक्लव्यं न च लाभे विस्मयः कार्यः ॥८९॥ परशक्त्यभिप्रसादात्मकेन किञ्चिदुपयोगयोग्येन । विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति ॥९०॥
(८९) टीका - उदयोपशमेति । लाभान्तरायकर्मणः क्षयोपशमाल्लाभो भवति भक्तपान-वस्त्र-प्रतिश्रय-पीठफलकादेः १ लाभान्तरायकर्मोदयाच्च न लभते किञ्चिदपि । अतो नास्ति नित्यो लाभो नाप्यलाभः । नित्यानित्यौ च लाभालाभौ विज्ञाय नालाभे वैक्लव्यं = दीनता कार्या, नापि लाभे सति विस्मयो = गर्वः कार्यः । यदि लभ्यते ततो धर्मसाधनं शरीरकमाद्यं दशविधचक्रवालसामाचारीसमर्थं भविष्यति, न चेल्लब्धं तथाप्यदीनचेतसः साधोर्निर्जराभाक्त्वं भविष्यति । कर्मोदयक्षयोपशमजनितः खल्वयं भावो न स्वतो लाभालाभलक्षण इति ॥ ८९ ॥
(९०) टीका - परेति । परो दाता गृहस्थादिः । तस्य दानान्तरायक्षयोपशमजनिता शक्तिः स्वशक्त्यनुरूपं ददाति । अभिप्रसादात्मकेनेति दातुर्यद्यप्यभिप्रसन्नं चेतो भवति साधुं प्रति मुक्तिसाधनप्रवृत्तोऽयं तपस्वी निःसङ्गः समारम्भादिषु पात्रभूतोऽस्मै दत्तं बहुफलं भवति
(८९) (वि० ) अथ लाभमदत्यागमाह - उदयोपशमेति । अत्रैवं व्याख्या । उदयोलाभान्तरायस्यानुभवनम्, उपशमशब्देनावयवे समुदायोपचारात् क्षयोपशमो लभ्यते, तत्र कियो लाभान्तरायस्य क्षयः कियतस्तूपशमः, तत उदयश्च क्षयोपशमश्च तौ निमित्तं - कारणं ययोस्तौ तथा, उदयनिमित्तक्षयोपशमनिमित्ताविति तत्त्वम् । 'कावेवंविधावित्याह-लाभालाभाविति पदव्यत्ययादलाभलाभौ, अयमर्थः-अलाभो लाभान्तरायोदयनिमित्तो लाभश्च तस्यैव क्षयोपशमनिमित्त इति पदद्वयस्य विपर्ययः, तौ अनित्यकौ - कादाचित्कौ मत्वा-ज्ञात्वा, किं कार्यमित्याह - नालाभे वैक्लव्यंदैन्यं, न च लाभे विस्मयो - हर्षः, कार्य इति उभयत्र योज्यमिति ॥८९॥
(९०) (वि०) परेति । शक्तिश्च अभिप्रसादश्च शक्त्यभिप्रसादौ परस्य सम्बन्धिनौ शक्त्यभिप्रसादौ तौ तथा तावेवात्मा स्वरूपं यस्य स तथा तेन, लाभेन वक्ष्यमाणेनेति योगः । तत्र परो-दाता तस्य दानान्तरायक्षयोपशमजनिता शक्तिः, अभिप्रसादस्तु तस्यैव दातुर्यद्यभिप्रसन्नं चेतो
( ८९ ) ( अव० )–क्षयोपशमाल्लाभो भवति, लाभान्तरायकर्मोदयाच्च न लभते किञ्चित्, नित्यानित्यौ, दीनता, गर्वः ॥८९॥
( ९० ) ( अव० )–परो दाता गृहस्थादिस्तस्य दानान्तरायक्षयोपशमोत्था शक्तिः स्वशक्त्यनुरूपं ददाति । दातुर्यदि चेतःप्रसन्नता भवति, साधुं प्रति गुणानुरागः । उपयोग: वस्त्राहारादिना ॥९०॥