________________
प्रशमरतिप्रकरणम्
बलसमुदितोऽपि यस्मान्नरः क्षणेन विबलत्वमुपयाति । बलहीनोऽपि च बलवान् संस्कारवशात् पुनर्भवति ॥८७॥ तस्मादनियतभावं बलस्य सम्यग् विभाव्य बुद्धिबलात् । मृत्युबले चाबलतां मदं न कुर्याद्बलेनापि ॥८८॥
(८७) टीका-बलेत्यादि । बलेन शारीरेण समुदितः सम्पन्नो नरो' बलवानपि यस्मात्क्षणेन स्वल्पेनैव कालेनातितीव्रज्वरविशूचिकादिवेदनातः सन् विगतबलो भवति । बलहीनोऽपि दुर्बलः सन्नपि धृतिमान् प्रणीतरसाभ्यव्यवहारसंस्कारवशादाश्वेव बलसम्पन्नो जायते । संस्कारो वा कर्मविपाकस्तद्वशाद्वीर्यान्तरायक्षयोपशमविशेषादित्यर्थः ॥८७॥
(८८) टीका-तस्मादनियतेत्यादि । अनियतो यस्य,१ भावः-सत्ता । कदाचिद्भवति कदाचिन्न भवतीति । बलमुक्तेन न्यायेनेति । सम्यग्विभाव्य विज्ञाय यथावत् । कथं भावो बलस्येत्याह-बुद्ध्यगम्यमेतदिति प्रतिपादयति । २मृत्युबले चोपतिष्ठमाने न शरीरबलं न स्वजनबलं न द्रव्यबलं क्रमते प्रतिक्रियायै । अतो मदं न कुर्यात् । सम्यग्विभावितत्वादसमर्थो बलेनापि ॥८८।।
(८७) (वि०) अथ बलमदत्यागमाह-बलेति । बलसमुदितोऽपि-प्राणसम्पन्नोऽपि यस्मान्नरः क्षणेन-स्वल्पकालेन विबलत्वं-प्राणहीनतामुपयाति-व्रजति, तथा बलहीनोऽपि च बलवान् भवतीति सम्बन्धः । कुतः?-संस्कारवशात्-प्रणीताहाराभ्यवहारसामर्थ्याद्वीर्यान्तरायक्षयोपशमविशेषाद्वेति ।।८७॥
(८८) (वि०) तस्मादनियतभावं-कादाचित्कत्वं बलस्य सम्यग् विभाव्य-पर्यालोच्य । कुत: ?-बुद्धिबलात्-मतिसामर्थ्यात् । तथा मृत्युबले च-'मरणे प्राप्ते अबलतां विभाव्येति योगः । अतो मदं न कुर्याद्बलेनापीति ॥८८।।
(८७) (अव०)-अतितीव्रज्वरशूलविसूचिकादिवेदनातः सन् 'सबलोऽपि क्षणेन विगतबलत्वमुपैति । २संस्कारात्प्रणीताहाराभ्यवहाराद्रसायनदेवताराधनाद्वीर्यान्तरायकर्मक्षयोपशमाद्वेति ॥८७॥
(८८) (अव०)-अनियतो भावः सत्ता यस्य कदाचिद्भवति कदाचिन्न भवति । विज्ञाय मरणबले प्राप्ते शरीरबलं द्रविणबलं च न क्रमते प्रतिक्रियायै ॥४८॥