SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् संसारादुद्वेगः क्षपणोपायश्च कर्मणां निपुणः । वैयावृत्त्योद्योगस्तपोविधिर्योषितां त्यागः ॥ ११५ ॥ विधिना भैक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्या । ईर्याभाषाऽम्बरभाजनैषणाऽवग्रहाः शुद्धाः ॥ ११६॥ ७१ ( ११५ ) टीका–संसारादुद्वेग इत्यादि । लोकसाराध्ययने लोकसारः इत्यन्वर्थं नाम आदिपदे'नावन्तिरिति। तत्र संसारादुद्वेग: हिंसादिप्रवृत्तो न मुनिस्तद्विरतो मुनिरकिञ्चनः कामभोगेषूद्विग्नोऽनेकदोषदर्शनात् । धर्मज्ञानसंयमनिर्वाणाख्यम् । लोकसारमवेक्ष्यमाणः ससहायो मार्गमेव ४अपरित्यजन् सारमासादयति लोकस्येति । धूताध्ययने स्वजनमित्रकलत्रपुत्रादिनिरपेक्षता, तद्विधूननं तत्परित्यागः, कर्मणां च ज्ञानावरणादीनां ५ विधूननोपायः, श्रुतज्ञानानुसारि क्रियानुष्ठानं शरीरोपकरणत्यागश्चेति । महापरिज्ञायां मूलोत्तरगुणान् परिज्ञाय यथावदवेत्य मन्त्रतन्त्राकाशगतिलब्धीरनुपजीवनम् । प्रत्याख्यानपरिज्ञया च प्रत्याख्याय “कर्तव्यानि व्यापृतेन सदा ज्ञानदर्शनचरणेषूद्युक्तेन भवितव्यमित्येतदाह - वैयावृत्त्योद्योगः | विमोक्षयतनाध्ययने श्रावकाणां देशविमोक्ष: साधूनां सर्वविमोक्षः । क्षीणकर्मणां ९मुक्तानामात्मनोऽपि स्वजनितैरेव कर्मभिर्बद्धस्य सकलकर्मांशवियोगो मोक्षः सप्रपञ्चो भक्तप्रत्याख्यानेङ्गिनीपादपोपगमनमरणैः सह वर्ण्यते । तपोविधिः प्राधान्याद् गृहीतः । उपधानश्रुते भगवता श्रीवर्धमानस्वामिना स्वानुष्ठिततपोव्यावर्णनं । योषित्त्यागो ब्रह्मचर्यादिलक्षणं कृतम् । एवमाचारो नवाध्ययनात्मकोऽर्थतो विभक्तः ॥११५॥ (११६) टीका-'सम्प्रत्याचाराङ्गेष्वध्ययननवकाद्याकृष्टेषु विस्तररचितेष्वधिकारा o ( ११५ ) (वि० ) संसारादुद्वेगः कार्य इति लोकविजयाख्ये द्वितीयनाम्ना आवन्तीनामकेऽध्ययने 'पञ्चमेऽध्ययने प्रतिपादितम् । तथा क्षपणोपायश्च, केषां ? - कर्मणां निपुणः - सूक्ष्मोऽभिधीयत इति धूताख्ये षष्ठेऽध्ययने उक्तम् । तथा वैयावृत्त्योद्योग :- गुर्वाद्यर्थं भक्तानयनादिक्रियायामुद्यम इति महापरिज्ञाख्ये सप्तमेऽध्ययने भणितम् । तपोविधिरिति मोक्षाख्येऽष्टमे उक्तम् । योषितां त्यागःस्त्रीपरिहार इत्युपधानश्रुताख्ये नवमेऽध्ययने उक्तम् इति । इति प्रथमश्रुतस्कन्धः ॥ (११६) (वि०) साम्प्रतं द्वितीये श्रुतस्कन्धे षोडशाध्ययनात्मकेऽध्ययनस्वरूपमार्याद्वयेनाह–विधिनेति । स्थानेति । विधिना भैक्ष्यग्रहणं इति द्वितीयश्रुतस्कन्धे पिण्डैषणाध्ययने ( ११५) (अव० )–संसारोद्वेगः पञ्चमे, कर्मनिर्जरोपायः षष्ठे, वैयावृत्त्योद्यमः सप्तमे, तपोविधिरष्टमे, योषितां त्यागः स्त्रीपरिहारो नवमे ॥ ११५ ॥ ( ११६ ) ( अव० ) – अम्बरं = वस्त्रं, भाजनं - पात्रकादि तयोरेषणा, तथावग्रहो देवेन्द्रादेः । एते कीदृशाः ? शुद्धाः-शुद्धिमन्तः ॥११६॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy