________________
७२
प्रशमरतिप्रकरणम्
स्थाननिषद्याद्युत्सर्गशब्दरूपक्रियाः परान्योऽन्याः ।
पञ्चमहाव्रतदाढ्यं विमुक्तता सर्वसङ्गेभ्यः ॥११७॥ वर्ण्यन्ते–विधिनेति । पिण्डैषणाध्ययने उद्गमोत्पादनैषणादोषवर्जितो भिक्षासमूहो ग्राह्यः २शैक्षाद्यर्थम् । शय्या प्रतिश्रयः तत्र स्त्रीपशुपण्डकविवर्जिते३ स्थातव्यम् । मूलोत्तरगुणशुद्धा शय्या ग्राह्येति । ईर्याध्ययने भिक्षाचङ्क्रमणादिक्रियाप्रवृत्तिः, शनैः पुरस्तात् युगमात्रनिरुद्धदृष्टिः स्थावराणि जङ्गमानि च सत्त्वानि परिरक्षन् व्रजतीति । भाषाजाताध्ययने वाक्यमात्मपराविरोधि आलोच्य वाच्यमिति । वस्त्रैषणाध्ययने मूलोत्तरगुणविशुद्धं५ लक्षणयुक्तं वासः समादेयमल्पपरिकर्मादि । पात्रैषणायामपि चोद्गमादिविशुद्धं पात्रग्रहणम्, ६अलाबुकादि यथोक्तमादेयम् । अवग्रहप्रतिमाध्ययने अवग्रहो देवेन्द्रराजगृहपतिशय्यातरसार्मिकाणां पञ्चधा, सर्वतः परिमितोऽवग्रहो याच्यः । यत्र भाजनक्षालनस्रवणपुरीषोत्सर्गस्वाध्यायस्थानयुक्तोऽवग्रहो योग्य इति । प्रथमचूला “सप्ताध्ययनपरिमाणेयम् ॥११६।।
(११७) टीका-सम्प्रति द्वितीयचूलासप्ताध्ययनानि १सप्तैककाभिधानानि तत्राधिकाराः-स्थाननिषद्यात्यादि । प्रथमाध्ययने स्थानं कायोत्सर्गाख्यं वर्ण्यते । द्वितीयाध्ययने निषद्यास्थानं २निवेशनाख्यमाख्यायते । तृतीयाध्ययने उच्चारप्रस्रवणत्यागयोग्यप्रदेशप्ररूपणं व्युत्सर्गस्थानमुक्तम् । चतुर्थाध्ययने शब्दाकारपरिणतद्रव्यग्रहणे सति
प्रथमे उक्तम् । तथा स्त्रीपशुपण्डकविवर्जिता शय्या ग्राह्येति शय्याख्ये द्वितीयेऽध्ययने उक्तम् । द्वितीय श्रुतस्कन्धेऽध्ययने इति पदद्वयम् इत ऊर्ध्वं सर्वत्र द्रष्टव्यम् । तथा ईर्या-चङ्क्रमणं, भाषा तु जल्पनम्, अम्बरभाजनयो:-वस्त्रपात्रयोरेषणा, तथाऽवग्रहो-देवेन्द्रराजगृहपतिसागारिकसार्मिकेभ्यो विहारादेर्मुत्कलापनं, तत एतेषां पञ्चानां पदानां द्वन्द्वसमासस्ते तथा । कीदृशाः?-शुद्धाः-शुद्धिमन्तः । शुद्धशब्दः पञ्चस्वपि योज्यः । सम्प्रति यथासङ्ख्यमध्ययनेषु योज्यते-तत्र्याशुद्धिर्याख्ये तृतीये ३ भाषाशुद्धिर्भाषाख्ये ४ अम्बरशुद्धिर्वस्त्रैषणाख्ये ५ पात्रशुद्धिः पात्रैषणाख्ये ६ देवेन्द्राद्यवग्रहशुद्धिरवग्रहाख्ये ७ सप्तमे ॥११६।।।
(११७) (वि०) पूर्वोक्तार्यया द्वितीयश्रुतस्कन्धसप्ताध्ययनानि निजनिजनामान्युक्तानि । अत ऊर्ध्वं सप्ताध्ययनानि सप्तसप्तकनामानि भावना विमुक्तिश्चेति नवाध्ययनानि द्वितीयार्ययोच्यन्त इति सम्बन्धः । स्थानादिषु पञ्चसु पदेषु कृतद्वन्द्वसमासेषु विषये क्रिया सा तथा । कार्येति सर्वत्र
(११७) (अव०)-स्थानं कायोत्सर्गरूपं, निषद्या-स्वाध्यायभूमिः, त्यागः-शब्दरूपयोर्विरागः । क्रियाशब्दः सर्वत्र परक्रियानिषेधः । प्रयत्नतस्तपस्यतो नि:प्रतिकर्मणः परो यदुपकरोति-संस्करोति तदयुक्तम्, अन्योऽन्यक्रिया सापि निष्प्रतिकर्मवपुषो न युज्यते ॥११७॥