________________
प्रशमरतिप्रकरणम्
७३
साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः ।
सम्यगनुपाल्यमानो रागादीन् मूलतो हन्ति ॥११८॥ रागद्वेषत्यागः । पञ्चमाध्ययने नानाविधरूपदर्शने३ रागद्वेषपरित्यागः कार्यः । सर्वत्र क्रियाशब्दे नाभिसम्बन्धः-स्थानक्रि या निषद्याक्रि येत्यादि । षष्ठे परक्रि यानिषेधः प्रयत्नवतस्तपसि प्रवृत्तस्य नि:प्रतिकर्मशरीरस्य परो यदुपकरोति संस्करोति तदयुक्तम् । सप्तमाध्ययनेऽन्योन्यक्रिया परस्परक्रिया सापि निःप्रतिकर्मवपुषो न युज्यत इति । तृतीया चूला भावना तत्राप्रशस्तभावनां विहाय प्रशस्तभावना दर्शनज्ञानचरणतपोवैयावृत्यादिका भाव्याः । एकैकमहाव्रतभावनाश्च पञ्च पञ्च । पञ्चमहाव्रतदाार्थमिति । विमुक्तता सर्वसङ्गेभ्य इति चतुर्थचूलिकायां विमुक्ताध्ययने कर्मणो विमुक्तिरशेषतो देशतो वा चिन्त्यते । यावन्तः केचित्सङ्गास्तेभ्यो विमुक्तिरिति । निशीथाध्ययनं पञ्चमी चूला चतसृषु चूलासु योऽतिचारस्तद्विशुद्ध्यर्थं प्रायश्चित्तदानं तत्रेति ॥११७।।
(११८) टीका-साध्वाचार इति । एवमेष साधूनां समाचारः । खलुशब्दो वाक्यालङ्कारार्थे । नवब्रह्मचर्यात्मक: सुप्तिङन्तपदगणनयाऽष्टादशपदसहस्रात्मकः परिपठितः । ३यत्र चार्थोपलब्धिस्तत्पदमिति । सम्यग्यथोक्तेन विधिना ग्रहणधारणानुष्ठानव्याख्याभिर
शेषः । परा क्रिया, अन्योऽन्या क्रिया । प्राक्तनपदात् क्रियाशब्दः समस्तोऽप्यत्रापि पदद्वये योज्यः । तत्र स्थानं कायोत्सर्गादीनामालोचनीयमिति प्रथमसप्तकेऽष्टमेऽध्ययने, ८ निषद्या-स्वाध्यायभूमिः ९ व्युत्सर्ग उच्चारादीनां १० शब्देषु श्रूयमाणेषु रागद्वेषत्यागः कार्यः ११ रूपेषु दृष्टिगोचरागतेषु रागद्वेषत्यागो विधेयः १२ तथा परा क्रिया-आत्मव्यतिरिक्तः परस्तस्य हस्तात् पादधावनादिका १३ तथा अन्योन्यक्रिया-परस्परं पादधावनादिका १४ तथा पञ्चमहाव्रतेषु दाढ्य-दृढता १५ तथा विमुक्तता कार्या । केभ्यः ?-सर्वसङ्गेभ्यः ॥११७||
(११८) (वि०) अस्यैव फलमाह-साध्वाचार इति । साध्वाचार: पूर्वोक्ताध्ययनस्वरूपकथितस्वरूपः । खलु-निश्चयेनायं-प्रत्यक्षः। कथम्भूतः ?-अष्टादशेति सङ्ख्या पदानांसुप्तिङन्तानामर्थसमाप्तिरूपाणां वा सहस्राणि-सङ्ख्याविशेषाः, ततोऽष्टादश च तानि पदसहस्राणि च अष्टदशपदसहस्राणि तैः परिपठितः अधीतः, प्रतिपादित इत्यर्थः । तानि वा परिपठितानि यत्र स तथा । अष्टादशसहस्रप्रमाण इत्यर्थः। किं करोतीत्याह-सम्यग्-अवितथमनुपाल्यमानःपठनादिभिरासेव्यमानो रागादीन् मूलत:-सर्वथा हन्ति-नाशयतीति ॥११८॥
(११८ ) (अव०)-साध्वाचार: पूर्वोक्ताध्ययनेऽष्टादशपदसहस्रप्रमितशीलाङ्गशीलनरूपकथितस्वरूप: । खलु-निश्चयेन । अयं प्रत्यक्षोऽक्षिगोचरः । सम्-परीक्ष्यानुष्ठीयमानो, रागाद्यान्तररिपून्मूलतो नि:शेषयति ॥११८॥