________________
७४
प्रशमरतिप्रकरणम्
आचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्र क्वचनाभिभवनं स्यात् ॥११९॥ पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः ।
संयमयोगैरात्मा निरन्तरं व्यापृतः कार्यः ॥१२०॥ नुपाल्यमानोऽभ्यस्यमानो रागद्वेषमोहान् समूलकाषं कषतीति । अयं चापरो गुणः प्राप्यते ॥११८।।
(११९) टीका-आचाराध्ययनोक्तेत्यादि। आचाराध्ययनमाचारागमस्तत्रोक्तो योऽर्थस्तत्र भावना वासनाभ्यासः षड्जीवनिकाययतनादिका तदाचरणेन गुप्तहृदयस्य च मूलोत्तरगुणैगुप्तमनस्कस्य तदनुष्ठानव्यग्रस्य । किं भवतीत्याह-न तदस्ति कालविवरं कालच्छिद्रं क्वचनक्वचित्, यत्र च्छिद्रेऽभिभूयते कषायप्रमादविकथादिभिरनाचारिति५ ॥११९॥
(१२०) टीका-तथा चाचारार्थव्यग्रस्य न कदाचिद्विमतिर्मुक्तिपरिपन्थिनी साधोर्भवतीत्याह-पैशाचिकमाख्यानमित्यादि। केनचिद्वणिजा मन्त्रबलेन पिशाचको वशीकृतः । पिशाचकेन चोक्तं, 'ममाज्ञादानमनवरतं कार्यं, यदैवादेशं न लभे तदैवाहं भवन्तं विनाशयामि' इति । प्रतिपन्नं च वणिजा। आज्ञा च दत्ता । गृहकरण-धनधान्यानयन-कनकरजतादिविभूतिरिष्टा यथेच्छं वणिजः सम्पादिता पिशाचकेन । पुनश्चाज्ञा मागिता । वणिजाऽभिहितः,४ 'दीर्घतमं
(११९) (वि०) अस्यैवासेव्यमानस्य फलान्तरमाह-आचारेति । आचारस्यआचाराङ्गस्याध्ययनानि-तदन्तर्गता अर्थपरिच्छेदविशेषास्तेषूक्तः स चासावर्थश्च-अभिधेयं तस्य भावनावासना तया चरणं-चारित्रं व्रतादि तेन गुप्त-व्याप्तं वासितमिति यावद् हृदयं-चित्तं यस्य स तथा । तस्य किं भवतीत्याह-न-नैव तत्किमप्यस्ति-विद्यते कालविवरम्-अद्धाक्षण इत्यर्थः यत्र-यस्मिन् क्वचनकस्मिश्चित् कालविवरेऽभिभवनं-परिभवो, रागादिभिरिति शेषः, स्याद्-भवेदिति ॥११९॥
(१२०) (वि०) तथा आचारार्थव्यग्रस्य न कदाचिद्विमतिर्मुक्तिपरिपन्थिनी साधोर्भवतीत्याह-पैशाचिकमिति । केनचिद्वणिजा मन्त्रबलेन पिशाचो वशीकृतः । पिशाचेनोक्तं'ममाज्ञादानमनवरतं च कार्य, परं यदैवाऽऽदेशं न लप्स्ये तदैवाहं भवन्तं विनाशयिष्यामि' इति । प्रतिपन्नं वणिजा । आज्ञा च दत्ता गृहकरणधनधान्यानयनकनकादिविभूतिसम्पादनविषया । सम्पादिता च पिशाचेन । पुनश्चाज्ञा मागिता। वणिजा चाभिहितो-'दीर्घवंशमानीय गृहाङ्गणे निखाय
(११९) (अव०)-आचाराध्ययनोक्तार्थानां भावना-तस्य-साधोः, किं भवतीत्याहन तदस्ति कालविवरं छिद्रं यत्र च्छिद्रेऽभिभवनं प्रमादविकथादिकं भवति ॥१९॥
१(१२०)(अव०)-वणिग्वशीकृतपिशाचकथां कुलवध्वाश्चलितचित्ताया अपि गोपायन