________________
प्रशमरतिप्रकरणम्
क्षणविपरिणामधर्मा मर्त्यानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः ॥१२१॥
७५
वंशमानीय गृहाङ्गणे निखायारोहणावरोहणं च कुर्वीथास्तावद्यावदन्यस्याज्ञादानस्यावकाशो भवति' इति । न चास्ति छिद्रं किञ्चिद्वणिजो यत्राभिभवः स्यादिति । साधोरप्यहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु वर्तमानस्य नास्ति छिद्रं विस्रोतसा गमनमिति । अपरा कुलवधू रूपलावण्यवती केनचिद्विन दृष्टा, प्रार्थिता “च परिभोगं, प्रतिपन्नं च तया । श्वश्रूवा च विज्ञाय तदभिप्रायं सर्वत्र गृहव्यापारे नियुक्ता । प्रातरेव गृहप्रमार्जन - गोमुखकरण - भाण्डक प्रक्षालनाधिश्रयण - रन्धन - परिवेषण-भाजनमार्जनोपलेपन-खण्डन-छण्टन-पादप्रक्षालनाभ्यङ्गनानेककार्यव्यग्रा कृच्छ्रेण निद्रामोक्षमासादयति । तस्याः सुदूरादेव विटप्रार्थनकथा व्यपेता । एवं साधोरप्याचारव्यग्रस्य विस्मरत्येवान्या विषयादिकथेति। अतः संयमयोगैरात्मा व्यापृतः कार्यः । संयमः सप्तदशभेदस्तद्विषया ९योगव्यापारास्तैरात्मा व्यापृतो व्यग्रः कार्य इति ॥ १२०॥
(१२१) टीका-इत्थं विहितक्रियानुष्ठानव्यग्र ऐहिकेषु भोगकारणेषु भावयेद
आरोहणमवरोहणं च कुर्वीथाः तावद्यावदन्यस्याज्ञादानस्यावकाशो भवति' इति । न चास्ति छिद्रं किञ्चिद्वणिजो यत्राभिभवः स्यादिति मन्यमानेन पिशाचेनोक्तं- 'छलितोऽहं त्वया, न तु मया त्वमिति ततो मुत्कलय मां, कार्यकाले स्मरणीय' इत्यभिधाय स्वस्थानमगमत्पिशाच इति । एवं साधोरप्यहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु वर्तमानस्य नास्ति छिद्रं यत्र विषयेच्छायां प्रवृत्तिरिति । तथा द्वितीयं कुलवध्वाख्यानं कथ्यते - यथा काचित् कुलवधूर्देशान्तरगतभर्तृका । तया सखी भणिता'कञ्चन युवानमानय' । तयोक्तम्- ' एवं करोमि धृत्या स्थेयम्' इत्यभिधाय परिणामसुखदं सर्वं शोभनमिति चिन्तयन्त्या श्वशुरस्य निवेदितम् । ततस्तेन द्वितीयेऽह्नि निजभार्यया सह शब्दराटी कृता यथा-'त्वं 'स्फोटयसि गृहम्' । तयोक्तं- 'न शक्नोम्यहं निर्वाहयितुं गृहमिदं, मुक्तोऽयं सम्प्रति मयाऽधिकारः । ततः श्वशुरेण सा वधूर्गृहव्यापारेषु नियुक्ता, सर्वं गृहव्यापारं करोतीति । तत आकुलमनाः कष्टेन स्वप्तुं लभते । ततः श्वशुरेण प्रयुक्ता तत्सखी - 'भण मम वधूं यथा आनयामि युवानम्' । तया च सा प्रोक्ता सती प्राह - 'स्वप्तुमपि मे न कालोऽस्ति, किमनया दुष्टजनोचितया कथया ?' इति पैशाचिकमाख्यानं श्रुत्वा कुलवध्वा गोपायनं च श्रुत्वा अतः संयमयोगैरात्मा निरन्तरं व्यावृत्तः कार्य इत्युक्तम् ॥१२०॥
(१२१) (वि० ) इत्थं च विहितक्रियानुष्ठानव्यग्रः सन् ऐहिकभोगकारणेषु भावयेदस्वरूपं च श्रुत्वा संयमसाधनक्रियामार्गेरात्मा जीवः सततं व्यापृतः = व्यग्रतरः करणीयः ॥ १२० ॥ (१२१) (अव०)—–'विपरीतस्वभावाः, सम्पदां निचयाः सकलाः, पुत्रकलत्रादीनां