________________
७६
प्रशमरतिप्रकरणम्
भोगसुखैः किमनित्यैर्भयबहुलैः काङ्क्षितैः परायत्तैः ? । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥१२२॥
नित्यतामित्याह-क्षणविपरिणामधर्मा इत्यादि । क्षणेन विपरिणामधर्माः । विशब्दः कुत्सायाम् । कुत्सितः १परिणामो धर्मः स्वभावः प्रीतिकारिणः सन्तोऽप्रीतिकारिणः परिणतिविशेषाज्जायन्ते । स्वल्पेनैव कालेनान्यस्वभावा भवन्ति । मरणधर्माणो मास्तेषां ऋद्धिसमुदया २विभूतिसमुदया: । धनधान्यहिरण्यसुवर्णादयः सर्वे दक्षिणोत्तर-२मथुरावासिवणिग्द्वयविभूतिसमुदयवत् । अन्यथात्वं च प्रतिपन्नाः शोकहेतवो नियमेन स्युः । संयोगाः पुत्रपत्नीप्रभृतयो विप्रयोगान्ता एव भवन्ति । न खलु कश्चित् संयोगोऽस्त्यात्यन्तिक इति भावयतोऽभिलाषस्तेषु न भवतीति ॥१२१।।
___ (१२२) टीका-तस्मान्न किञ्चिद्विषयसुखाभिलाषेणेति दर्शयन्नाह–भोगसुखैः किमनित्यैरित्यादि । भुज्यन्त इति भोगाः शब्दादयस्तज्जनितानि सुखानि भोगसुखानि । तानि चोक्तेन न्यायेनानित्यानि । किमिति क्षेपे । न किञ्चिदेभिरित्यभिप्रायः । भावयन् चौरदायादाग्निभूपतिभ्यो नित्यमेवाशङ्कते । भोगसुखकारणेषु वृद्धिसमुदयेषु भयबहुलेषु 'प्रभूतभयेषु । काङ्कितैरित्यभिलषितैः । परायत्तैरिति शब्दादिविषयायत्तैर्मनोहारिषु शब्दादिषु सत्सु
नित्यतामित्याह-क्षणेति । क्षणेन-स्तोककालेनापि । विशब्दः कुत्सायाम् । विपरिणामःकुत्सितपरिणतिर्धर्म:-स्वभावो येषां ते तथा, प्रीता अप्यप्रीता जायन्ते, स्तोककालेनान्यस्वभावा भवन्तीति भावना। केषाम् ?-मानां-मनुष्याणाम् । क एवंविधा भवन्ति ?-ऋद्धिसमुदयाविभूतिनिचयाः सर्वे-अशेषाः । सर्वे च शोकजनका:-शोकहेतवः । तथा संयोगाः-सम्बन्धाः पुत्रपत्नीप्रभृतिभिर्विप्रयोगान्ता-विरहान्ता भवन्तीति शेष इति ॥१२१॥
(१२२) (वि०) यस्मादेवं तस्मान्न किञ्चिद्विषयसुखाभिलाषेणेति दर्शयन्नाहभोगसुखैरिति । भोगसुखैः-विषयसातैः किं ?, न किञ्चित् । कीदृशैः ?-पूर्वोक्तन्यायेन अनित्यैः भयबहुलैः-भीतिप्रचुरैः, काक्षितैः२-अभिलषितैः परायत्तैः-स्त्र्यादिपदार्थसार्थाधीनः,
संयोगा वियोगावसानाः ॥१२१॥
(१२२) (अव०)-१कि क्षेपे, अनित्यैः अशाश्वतैः, अभिलषितैः, स्त्र्यादिशब्दादि विषयायत्तैः, नित्यमात्यन्तिकम्, व्यपगतरोगादिभयम्, आत्मस्थं स्वायत्तम्, तस्मिन् प्रशमसुखे यतनीयम् ॥१२२॥