________________
प्रशमरतिप्रकरणम्
७७
यावत् स्वविषयलिप्सोरक्षसमूहस्य चेष्ट्यते तुष्टौ । तावत् तस्यैव जये वरतरमशठं कृतो यत्नः ॥१२३॥ यत् सर्वविषयकाङ्क्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते विगतरागः ॥१२४॥
सुखमुपजायते भोगवतामिति । तस्मात्तेष्वभिलाषमपहाय । नित्यमात्यन्तिकम् । अभयमविद्यमानभीतिकम् । आत्मस्थम् आत्मायत्तं न परायत्तम् । प्रशमसुखं मध्यस्थस्यारक्तद्विष्टस्योपशान्तकषायस्य यत्तदेवंविधं तत्रैव प्रयत्नः कार्य इति ॥१२२॥
(१२३) टीका-तच्च सुलभमेवेति दर्शयति-यावत्स्वविषयलिप्सोरित्यादि । अक्षसमूहस्येन्द्रियग्रामस्य । स्वविषयलिप्सोः शब्दादिविषयाभिलाषिणः शब्दादीन् स्वविषयान् लब्धुमिच्छतः । तुष्टौ प्रिये कर्तव्ये । यावत् चेष्ट्यते प्रयासः क्रियते तावत्तस्यैव जयेऽक्षसमूहस्याभिभवे निग्रहे नियमने । वरतरं शोभनतरं बहुगुणम् । अशठं मायारहितमृजुना' चित्तेन । यत्नः कृतः । वरतरमशठमिति क्रियाविशेषणम् । यत्नः क्रियते तद्वरतरमशठं चेति ॥१२३।।
(१२४) टीका-यत्सर्वविषयेत्यादि । इतश्च प्रशमसुखं सुलभम् । यत्सुखं सकलविषयसामग्र्यामाकाङ्कितायामवाप्तायामुद्भूतमुपजातं । सरागेण रागवता । भूयसायासेन
तस्मात्तेष्वभिलाषमपहाय नित्यम्-आत्यन्तिकमभयम्-अविद्यमानभीतिकमात्मस्थं-स्वायत्तम् । किमेवंविधमित्याह-प्रशमसुखं-उपशमसातं, यत्तदेवंविधं तत् तत्र यतितव्यं-तस्मिन् यत्नः कार्य इति ॥१२२॥
(१२३) (वि०) तद्यत्नश्चेन्द्रियजययत्नेन भवतीति दर्शयति-यावदिति । अक्षसमूहस्यइन्द्रियग्रामस्य स्वविषयलिप्सोः-शब्दादिगोचराभिलाषिणस्तुष्टौ-तोषे कर्तव्ये यावत् चेष्ट्यते-प्रयासः क्रियते तावत् तस्यैव जये-अक्षसमूहस्य निग्रहे वरतरं-शोभनतरम् अशठं-मायारहितं यथा भवत्येवं कृतो-विहितो यत्नः-आदर इति ॥१२३।।
(१२४) (वि०) तथा प्रशमसुखं सुलभमित्याह-यदिति । 'यत्सुखं प्राप्यते सरागेण । कीदृशं?-सर्वविषयकाङ्क्षोद्भवं-समस्तशब्दाद्यभिलाषावाप्त्युत्पन्नं तदेव सुखमनन्ताभिः कोटिभिः
(१२३)(अव०)-इन्द्रियग्रामस्य शब्दादि गोचराभिलाषिणः, करणगणस्य प्रीतौ ॥१२३॥
(१२४ ) (अव० )-'समस्तशब्दाद्यभिभालाषावाप्त्युत्पन्नं, रागवता भूयसायासेन यत्प्राप्यते, आयासेन विनैव तत् ॥१२४॥