________________
७८
प्रशमरतिप्रकरणम्
इष्टवियोगप्रियसम्प्रयोगकाङ्क्षासमुद्भवं दुःखम् । प्राप्नोति यत्सरागो न संस्पृशति तद्विगतरागः ॥१२५॥ प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य ।
भयकुत्सानिरभिभवस्य यत्सुखं तत्कुतोऽन्येषाम् ? ॥१२६॥ प्राप्यते । तदेव सुखमनन्ताभिः कोटीभिर्गुणितमभ्यस्तम् । मुधैव विना मूल्येनैव विनायासेन । विगतरागः प्रशमसुखमवाप्नोतीति ॥१२४।।
(१२५) टीका-इष्टवियोगेत्यादि । इष्टस्य शब्दादेः पुत्रादेर्वा हिरण्यसुवर्णादेर्वा वियोगे । अनिष्टस्य चाप्रियस्य वा संयोगे । इष्टे तावदविप्रयोगाकाङ्क्षा । अनिष्टे च विप्रयोगाकाङ्क्षा । तस्याः काङ्क्षायाः समुद्भूतमुत्पन्नं यदुःखं । सरागो विषयसुखाभिलाषी। यत्प्राप्नोति । तदुःखं विगतरागो न संस्पृशति नासादयति । विगतरागेण मध्यस्थेन तन्न प्राप्यत इत्यर्थः ॥१२५॥
(१२६) टीका-प्रशमितवेदकषायस्येत्यादि । प्रशमिताः प्रशमं नीता वेदकषाया येन । २वेदः स्त्रीपुंनपुंसकाख्यः । कषायाः क्रोधादयः । वेदोदयात्पुमानभिलषति स्त्रियं, स्त्री च पुमांसमुभयं नपुंसकः, ५तदुदयाच्चाप्राप्तौ दुःखम् । शमितवेदस्य तन्न भवति । क्रोधाद्यग्न्या दीपितोऽपि दुःखभागेव जायते । शमितकषायस्य तु तदभावः । हास्यं हर्षाद्भवति । रतिः प्रीतिर्विषयेषु सक्तिः । अरतिरुद्वेगः । शोको मानसं दुःखं इष्टवियोगादौ । एतेषु हास्यादिषु मोहभेदेषु । निभृतः स्वस्थः । सत्यपि हास्यकारणे नास्ति हास्यं, न रतिः, नारतिः सत्स्वपि तत्कारणेषु अनित्यताभावनातश्च शोकोऽपि नास्त्येव । भयमिहपरलोकादानादि सप्तविधम् । कुत्सा जुगुप्सा निन्दा । साप्यनित्यभावनात एव निर्जिता । भयमपि सावष्टम्भादेव भयकारणविगमाद्वा विजयते । एवं भयकुत्साभ्यामनभिभूतस्य । यत्सुखं सङ्ख्याविशेषैर्गुणितम्-अभ्यस्तं मुधैव-मूल्येन विना लभते-प्राप्नोति, को?-विगतराग इति ॥१२४।।
(१२५) (वि० ) तथा इष्टेति । इष्टस्य-वल्लभवस्तुनो वियोगो-वियोजनं अप्रियसम्प्रयोगःअनिष्टप्राप्तिस्तयोः काङ्क्षा-चिन्ता तस्यां सकाशात् समुद्भवः-उत्पत्तिर्यस्य तत्तथा । तदेवंविधं किं ?-दुःखं प्राप्नोति-लभते यत् सरागो, न संस्पृशति वीतरागस्तदिति ।।१२५।।
(१२६) (वि० ) तथा प्रशमितेति । प्रशमिता वेदकषायाः पूर्वोक्तस्वरूपा यस्य जीवस्य स तथा तस्य, हास्यादिषु निभृतस्य-स्वस्थस्य, हास्यादिकारणेष्वपि तदकरणादित्यर्थः, भयकुत्साभ्यां
(१२६ ) (अव०)-अकृतविकारस्य अनुपनिभृतस्येति वा पाठः, अनभिभूतस्य ॥१२६॥