________________
प्रशमरतिप्रकरणम्
७९
सम्यग्दृष्टिआनी ध्यानतपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते ॥१२७॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥१२८॥
प्रशान्तचेतसः । तत्कुतोऽन्येषां रागिणाम् ? इति ॥१२६।।
(१२७) टीका-पुनः प्रशमसुखस्यैवोत्कर्षं विषयसुखान्निदर्शयन्नाह-सम्यग्दृष्टिरित्यादि । शङ्कादिदोषरहितसम्यग्दर्शनसम्पन्नः । यथासम्भवं च मत्यादिज्ञानेन युक्तः । शुभध्यानबलेन २तपोबलेन च युक्तोऽपि केवलमनुपशान्तः । अशमितवेदकषायोऽनुपशान्तः । ३तं गुणं न लभते ४नावाप्नोति । प्रशमगुणमुपाश्रितो यं गुणं लभते ज्ञानचारित्रोपचयलक्षणं निरुत्सुकत्वगुणं वा । न त्वनुपशान्तः तं गुणमवाप्नोतीति । तस्मात्प्रशमसुखायैव यतितव्यमिति ॥१२७॥
(१२८) टीका-भूयोऽपि प्रशमसुखोत्कर्षख्यापनायाह-नैवास्ति राजराजस्येत्यादि । राजराजश्चक्रवर्ती वासुदेवादिर्वा । पूर्वः सकलभरतक्षेत्राधिपतिः, उत्तरोऽर्धभरताधिपतिः । मनुष्यजन्मसुखस्य प्रकर्षवर्तिनावेतौ । ३वासुदेवचक्रवर्तिनोरपि नास्ति तादृशं सुखं यादृशं प्रशमस्थितस्येति । तद्धि चक्रवर्त्यादिसुखं शब्दादिसमृद्धिजनितं तस्य चानित्यत्वं प्राक् प्रतिपादितम् । न चैकान्तेन सुखहेतुत्वं शब्दादीनां, विपरिणतिधर्मत्वात् । देवेन्द्रस्य सुखं प्रकृष्टं स्यादिति, तदपि चोपरितनेन्द्रसुखप्रकर्षदर्शनात्तदाकाक्षिणः च्युतिचिन्तनाच्च दुःखव्यतिकीर्णमेव । अथवा देवराजः सर्वदेवोत्तमत्वादनुत्तरविमानवासी । तस्यापि यत् सुखं तदपि
भीतिजुगुप्साभ्यां निरभिभवस्य-अनभिभूतस्य यत् सुखं प्रशान्तचेतसस्तत् कुतोऽन्येषामिति ? ॥१२६।।
(१२७) (वि०) पुनर्विषयसुखात् प्रशमसुखस्योत्कर्षं निदर्शयन्नाह–सम्यग्दृष्टिरिति । सम्यग्दृष्टिआनीति व्यक्तं, ध्यानतपोबलयुतोऽपि सन् प्राणी अनुपशान्तस्तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते-प्राप्नोतीत्यतः प्रशमसुखायैव यतितव्यमिति ॥१२७||
(१२८) (वि०) भूयोऽप्यस्यैवोत्कर्षमाह-नैवास्तीति । स्पष्टमेव, किन्तु राजराजःचक्री, देवराजः-शक्र इति ।।१२८।।
(१२७) (अव०) अप्रशमितवेदकषायः ॥१२७॥ (१२८)(अव०)-'चक्रवर्त्यादिः,शक्रस्यानुत्तरदेवस्य वा, पुत्रकलत्रादिविमुक्तस्य ॥१२८॥