________________
८०
प्रशमरतिप्रकरणम्
सन्त्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तनेऽभिरतः । जितलोभरोषमदनः सुखमास्ते निर्ज्वरः साधुः ॥१२९॥
स्थितिक्षयमनुष्ययोषिदुदरगर्तनिमज्जनं च दुःखमनुचिन्तयतस्तस्यापि न " तत्सुखमस्ति दुःखलेशाकलङ्कितं, यदिहैव सुखं साधोर्मनुष्यजन्मनि प्रशमस्थितस्य विनिवृत्तसकलाकाङ्क्षस्यात्महितगवेषिणो विशिष्टज्ञानसमन्वितस्य लोकव्यापारः कृष्यादिप्रवृत्तिः कामभोगसाधनोपादित्सा, एवंविधेन व्यापारेण रहितस्य । प्रशमसुख एव व्यवस्थापितचेतो'वृत्तेर्यत्सुखं न तद्राजराजस्य इति ॥१२८॥
(१२९) टीका - प्रशमसुखमेव पुनः स्पष्टयति – सन्त्यज्य लोकेत्यादि । लोकः स्वजनः परजनश्च तद्विषया या चिन्ता दारिदौर्भाग्यादिलक्षणा । अकृतपुण्यानां च परलोके दुर्गतिप्राप्तिलक्षणा तां परित्यज्य विहाय । आत्मनः परिज्ञानम् 'अनादौ संसारेऽयमात्मा शारीराणि मानसानि च दुःखान्यनुभवन्नतृप्तः कामभोगसुखेषु कथमपि मनुष्यजन्मासादितवान् बोधिं च, तदधुना यथा संसारे बहुदुःखसङ्कटे न भ्रमति, तथा प्रयत्न कार्यो मया' इति आत्मपरिज्ञानचिन्तन एवाभिरतः परकार्यविमुखः । जिताः परिभूता रोषलोभमदना येन । रोषग्रहणाद् द्वेषः, लोभग्रहणाद्रागः, मदनग्रहणात्पुरुषवेदादिः । एतज्जयाच्च सुखमास्ते स्वस्थस्तिष्ठत्युपद्रवरहितः । ज्वरो रोगविशेषस्तेन ग्रस्तः परितापशिशिरलक्षणेन रतिमविन्दन् दुःखमास्ते । स एवंविधो निर्गतोऽपेतो ज्वरो यस्मात्स निर्ज्वरः । ज्वर इव ज्वरः रोषलोभमदनाख्यः । मोक्षसाधनाभ्युद्यतः साधुरिति ॥ १२९ ॥
(१२९ ) (वि० ) 'इदमेव पुनः स्पष्टयति - सन्त्यज्येति । सन्त्यज्य - मुक्त्वा लोकचिन्तां - स्वजनादिजनस्मृतिं सुखमास्ते - स्वस्थस्तिष्ठति साधुरिति सम्बन्धः । कीदृश: ?-आत्मपरिज्ञानचिन्तनेऽभिरतः- परकार्यविमुखः, तथा जिता:- पराभूता रोषलोभमदना येन स तथा । अत एव निर्ज्वराः-अरोगाः, यतो रोषादयो ज्वर इव ज्वरस्तद्रहितत्वात्, यद्वा पाठान्तरे निर्गता जरा-हानिः, सा च प्रस्तावात् प्रशमामृतस्य यस्यासौ निर्जर इति ॥१२९॥
१ (१२९ ) ( अव० ) - स्वजनादिस्मृतिः, आत्मपरिज्ञानं परकार्यविमुखः, निर्गतो रोषादय एव ज्वरो यस्य स निर्ज्वरः, अथवा निर्जरः = निर्गताऽपेता जरा हानिः सा च प्रस्तावात्प्रशमामृतस्य यस्यासौ निर्जरः ॥ १२९॥