________________
प्रशमरतिप्रकरणम्
या चेह लोकवार्ता शरीरवार्ता तपस्विनां या च । सद्धर्मचरणवार्तानिमित्तकं तवयमपीष्टम् ॥१३०॥ लोकः खल्वाधार: सर्वेषां ब्रह्मचारिणां यस्मात् ।
तस्माल्लोकविरुद्धं धर्मविरुद्धं च सन्त्याज्यम् ॥१३१॥ (१३०) टीका-सन्त्यज्य लोकचिन्तामित्युक्तं तत्कथं परित्यक्तलोकचिन्तस्य भरणपोषणादिवृत्तिरात्मनः स्यादित्याह-या चेह लोकवार्तेत्यादि । वर्तनं वृत्तिः भरणपोषणादिका वृत्तिरेवंविधा एवंप्रकारा यस्यां विद्यते सा वार्ता कृषिपाशुपाल्यवाणिज्यादि लोकस्य वार्ता । तस्यां चिन्तनमेतावदेव लोकवार्तायामुचिते भिक्षाकाले स्वार्थमेवोपसाधितेऽशनादिषु हिण्डमानोऽकृताकारिताननुमतमशनादि यल्लभ्यते लोकवार्ता । यस्तच्छरीरवार्तायाः कारणं भवति साधूनां शरीरवृत्तेः शरीरस्थितेनिमित्तं भवति तपस्विनाम् । तत्र येयं लोकवार्ता या च तपस्विनां शरीरसन्धारणवार्ता, एतद्वार्ताद्वयमपि सद्धर्मचरणवार्तानिमित्तकमिष्टम् । सद्धर्मो दशलक्षणकः क्षमादिः । चरणं मूलोत्तरगुणकलापः । सद्धर्मचरणवृत्तिः । सद्धर्मचरणवार्ता । सद्धर्मचरणवृत्तेरनन्तरं कारणं शरीरसन्धारणम् । शरीरसन्धारणवृत्तेश्च लोकवार्ता कारणम् । पारम्पर्येण सद्धर्मचरणवार्ताया: कारणमिति ॥१३०॥
(१३१) टीका-अपि च लोकवार्तान्वेषणे प्रयोजनमिदमपरम्-लोकः खल्वि
(१३०) (वि०) अनन्तरं 'सन्त्यज्य लोकचिन्ता'मित्युक्तं, तत् कथं परित्यक्तलोकचिन्तस्य साधोराहारादिभिर्निर्वाह: ?, ततः कथं सद्धर्मचरणवृत्तिः स्यादित्याशझ्याह-येति । या काचित्, चकारौ परस्परं समुच्चयार्थी, इहलोकवार्ता-कृष्यादिभिर्लोकनिर्वाह:, इह वर्तनं वृत्तिः सैव स्वार्थिकाणप्रत्ययाद्वार्ता । तथा या च शरीरवार्ता-देहसन्धारणं । केषां?-तपस्विनां-साधूनाम्, एतद् द्वयमपि सद्धर्मचरणवार्तानिमित्तकं-शोभनक्षान्त्यादिधर्मव्रतादिनिर्वाहहेतुकम् । समासस्तु सती च ते धर्मचरणे च सद्धर्मचरणे तयोर्वार्ता सद्धर्मचरणवार्ता तस्या निमित्तं तत्तथा, तदिष्टम्-अभिमतमिति ।।१३०॥
(१३१) (वि०) अपि च-लोकवार्ताऽन्वेषणाप्रयोजनमिदमपरम्-लोक इति । लोकः
(१३०) (अव०)-कृषिवाणिज्यादिचिन्तनं लोकवार्ता, धर्मनिर्वाहपृच्छा-शरीरनिर्वाह पृच्छा चिन्ता, शोभनं क्षान्त्यादिसद्धर्मचरणवार्तार्थं एतद्वयमपीष्टं लोकवार्ता तच्छरीरवार्तायाः कारणम् ॥१३०॥
__ (१३१) (अव०)-आधार आश्रयो वर्तत इति शेषः । धर्मचारिणां संयमिनां लोके १विरुद्धं जातमृतसूतकनिराकृतगृहगमनादि । मधुमांसादिरे धर्मविरुद्धम् ॥१३१॥