________________
८२
प्रशमरतिप्रकरणम्
देहो नासाधनको लोकाधीनानि साधनान्यस्य । सद्धर्मानुपरोधात्तस्माल्लोकोऽभिगमनीयः ॥१३२॥
त्यादि। लोको जनपदः । खलुशब्दोऽवधारणे । लोक एवाधारः । सर्वेषां ब्रह्मचारिणां यस्मात् । ब्रह्मसंयमः सप्तदशभेदः । तद्योगात् संयमिनः । तेषां सर्वेषामिति गच्छवासिनां १गच्छविनिर्गतानां च । तस्माल्लोके यद्विरुद्धं जातमृतकसूतकसमूहनिराकृतादिगृहेषु भिक्षादिग्रहणमभोज्येषु च परिहार्यम् । तथा चार्षम्
जे जहिं दुगुंछिया खलु पव्वावणवसहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा ३वज्जेयव्वा पयत्तेण ॥१॥ (ये यत्र जुगुप्सिताः खलु प्रव्राजन-वसति-भक्त-पानेषु ।
जिनवचने प्रतिकृष्टा वर्जितव्याः प्रयत्नेन ) यच्च लोकैकदेशेऽविरुद्धं मद्यमांसलशुनबीजानन्तकायादि धर्मसाधनविरुद्धमनेकं तदपि परिहार्यमिति ॥१३१॥
(१३२) टीका-इतश्च लोकवार्तान्वेषणं श्रेयोहेतुरिति दर्शयति-देहो नासाधनको इत्यादि । इति शरीरमाद्यं खलु धर्मसाधनम् । तस्य च देहस्याहारोपधिशय्यारे साधनं । साधनरहितस्य देहस्यासम्भव एव । तानि चास्य साधनानि ३लोकाधीनानि लोकायत्तानि भवन्ति । अतः किं ?, सद्धर्मानुपरोधात् सद्धर्मस्य क्षमादेरविरोधात्, लोकोऽभिगमनीयः, लोकवार्तान्वेषणमेवमर्थं करणीयमिति ॥१३२।।
खलु-जनपद एवाधार:-आश्रयो, वर्तत इति शेषः, सर्वेषां धर्मचारिणां-संयमिनां यस्मात्कारणात् तस्मात्कारणात् लोके-पृथग्जनपदे विरुद्धं-जातमृतसूतकनिराकृतगृहेषु भिक्षाग्रहणमसङ्गतं तत्तथा । तथा धर्मविरुद्धं-मधुमांसादिग्रहणम् । चः समुच्चये । सन्त्याज्यं-परिहार्यमिति ॥१३१।।
(१३२) (वि०) अथ लोकानुवृत्तिमेव समर्थयते-देह इति । देहः-शरीरं 'नासाधनकः, किन्तु ससाधन एव । लोकाधीनानि-जनायत्तानि साधनानि-आहारोपधिप्रभृतीन्यस्य-देहस्य, तत् किं ?-धर्मानुपरोधिनः२-सद्धर्मस्य-क्षमादेरविरोधाल्लोकोऽभिगमनीयः, धर्मविरुद्धत्यागेनानुवर्तनीय इति ॥१३२।।
(१३२) (अव०)-देहः शरीरं नैव अन्नपानवसनादिभिविना यापयितुं शक्यः तान्यन्न१पानासनादिसाधनानि लोकवशानि सद्धर्मस्य-क्षमादेरविरोधाद्धर्मविरुद्धत्यागेनानुवर्तनीयः ॥१३२॥