________________
प्रशमरतिप्रकरणम्
दोषेणानुपकारी भवति परो येन येन विद्वेष्टि । स्वयमपि तद्दोषपदं सदा प्रयत्नेन परिहार्यम् ॥१३३॥ पिण्डैषणानिरुक्तः कल्प्याकल्प्यस्य यो विधिः सूत्रे ।
ग्रहणोपभोगनियतस्य तेन नैवामयभयं स्यात् ॥१३४॥
(१३३) टीका-पर एवोपदेष्टा भवति गुणदोषयोरित्याह-दोषेणानुपकारीत्यादि । येन येनाभ्यस्यमानेन कर्मणा परो लोको विद्वेष्टि क्रुध्यति । भवति चानुपकारी प्रत्युतापकारे वर्तते । स्वयमप्यात्मनापि तद्दोषपदं परिहार्यमप्रमत्तेन सता अन्यः कुर्वन् परस्य दृष्टः किञ्चिदप्रियकारणं, तदवेक्ष्य स्वयमपि तद्दोषस्थानं परिहार्यं अनेनास्याप्रियं भवतीति सकलप्रमादरहितेन परित्यजनीयमिति ॥१३३।।
(१३४) टीका-यथैतत्परिहरणीयं तथेदमपीत्याह-पिण्डैषणेत्यादि । पिण्डैषणाध्ययने निरुक्तो निश्चयेनाभिहितः । उद्गमोत्पादनैषणादोषरहितो यो विधिः । २सकल्पनीयाकल्पनीयो ग्राह्यत्याज्यलक्षणः । सूत्रे पारमर्षे आगमे । ग्रहणे नियतः३ परिमितो ग्राह्यः । ४यथैषणीयदोषो न भवति । उपभोगे च नियतः द्वात्रिंशतः कवलानां न्यूनानामेवाभ्यवहार: कार्यः । तथाप्यार्षे
अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा छब्भागं ऊणयं कुज्जा ॥१॥ (अर्द्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रवस्य द्वौ भागौ । वायुप्रविचरणार्थं षड्भागं ऊनकं कुर्यात् ॥)
(१३३) (वि०) लोकानुवर्तने उपायमाह-दोषेणेति । दोषेण-दूषणेन करणभूतेन उपकाररहितो भवति-जायते । क एवंविधो भवति ? परो-लोको येन येन दोषेणेति योगः । कीदृशः ?-विद्विष्ट:-क्रुद्धः सन्, पर इति सम्बन्धः । स्वयं-आत्मनैव तद् दोषपदं-दूषणस्थानं सदैव प्रयत्नेन परिहार्य-साधुना त्याज्यमिति ॥१३३।।
(१३४) (वि०) 'तत्परिहार्य 'मित्युक्तं प्राक्, तद्विपक्षभूतस्य विधिविशेषमाहपिण्डैषणेति । पिण्डस्यैषणा-गवेषणादिरूपा सा पिण्डैषणा, तत्प्रतिपादकत्वेनोपचारात्
(१३३) (अव०)-दोषेणापकर्ताः भवति प्रत्युतापकारेण प्रवर्तते । परो-लोकः क्रुध्यति आत्मना ॥१३३॥
(१३४)(अव०)-पिण्डैषणाध्ययनभणितो निश्चयेन, कल्प्यो-ग्राह्योऽकल्प्य:१=तन्निषिद्धः परिहार्यः । आदानासेवनयोर्नियतवृत्तेः । तेन विधिगृहीताहारेण रजसरोगाणां भयं न भवति ॥१३४॥