________________
८४
प्रशमरतिप्रकरणम्
व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥१३५॥
इत्थं च ग्रहणोपभोगनियतस्य कल्पनीयस्य तेन विधिना अभ्यवह्रियमाणस्य । न जातुचिदामयभयमजीर्णजनितव्याधिभयं भवेत् । एवं च मान्द्यादिदोषाधिकरणपरिहारः । धासु च क्रियासु प्रवृत्तेरपरिहाणिः । तस्मादकल्प्यपरिहारेणापरिमितानियतभोगत्यागेन च भुञानस्य न किञ्चिद्दुष्यतीति ॥१३४॥
___ (१३५) टीका-एतदेव स्पष्टयन्नाह-व्रणलेपाक्षेत्यादि । व्रणलेपवत् अक्षोपाङ्गवच्चेति दृष्टान्तद्वयम् । व्रणलेपस्तावानेव देयो यावता पूयादिनिर्हरणसंरोहणे भवतः, अतोऽतिमात्रयाऽकिञ्चित्करमेव लेपदानम् । अक्षस्योपाङ्गोऽभ्यञ्जनं तच्च नवनीतादिरे तावन्मात्रमेव दीयते यावता शकटं भारमुद्वहत्यनायासेन । न चास्तीति कृत्वा प्रकामं नवनीतादेरभ्यञ्जनस्य दानं निष्फलत्वात् । एवं साधुनापि क्षुव्रणसंरोहणायाहारलेपप्रदानमसङ्गयोगभरमात्रयात्रार्थं कार्यम् । सङ्गः३ स्नेहः। योगा मनोवाक्कायाः । योगेषु शरीरादिषु लावण्यमृजाद्याशयपरिहारोऽसङ्गः । अतोऽसङ्गयोगः योगेष्वसङ्ग इत्यर्थः । योगानां भरः क्रियानुष्ठानं यावता क्रियासमर्थं शरीरादि भवति तावन्मात्रमेवाभ्यवहरति, नातिरिक्तम् । यात्रा दशविधचक्रवालसामाचारी स्वाध्यायभिक्षाचङ्क्रमणादिका च यात्रा तदर्थम् । यथाह
तं पि ण रूवरसत्थं भुजंताणं न चेव दप्पत्थं । धम्मधुरावहणत्थं अक्खोवंगो व जत्तत्थं ॥१॥ (तदपि न रूपरसार्थं भुञ्जानानां न चैव दर्पार्थम् ।
धर्मधुरावहनार्थं अक्षोपाङ्ग इव यात्रार्थम् ॥) पिण्डैषणाध्ययनमुच्यते, तत्र निरुक्तो-निश्चयेन भणितः स तथा, को ?-विधिरिति योगः । कस्य ?कल्प्यः-ग्राह्यः अकल्प्यः-परिहार्यः समाहारात्तस्य पिण्डस्येति सामर्थ्यगम्यम् । यः कश्चिद्विधिःउपभोगानुपभोगात्मक: सूत्रे-सिद्धान्ते, तेन-विधिना ग्रहणोपभोगयोः-आदाना सेवनयोनियतःपरिमितवृत्तिः स तथा तस्य, नियतग्रहणस्य नियतोपभोगस्य च सतः साधोरित्यर्थः । किमित्याहनैवामयभयं स्यात्-न रोगभीतिर्भवेदिति ॥१३४।।
(१३५) (वि०) अनन्तरोक्तं पिण्डाभ्यवहारं दृष्टान्तचतुष्केण स्पष्टयन्नाह-व्रणेति । व्रणेगण्डे लेपः स तथा, अक्षस्य-धुरः उपाङ्ग-म्रक्षणादिखरण्टनं तत्तथा, ततो द्वन्द्वः, ते इव तद्वद्,
(१३५) (अव०)-व्रणे गण्डलेपः, अक्षस्य धुरः उपाङ्गं तद्वत्, अभ्यवहरेद-आहरेदित्यत्रापि योज्यम । असङा: मनोवाक्कायेष्वसङा: साधवस्तेषां योगा:-क्रियानष्टानं तेषां भर: सड़ा तन्मानं तस्य यात्रा तदर्थं तन्निमित्तं धर्मानुष्ठाननिर्वाहार्थमिति । तथा पन्नगोऽहिः यथा चर्वणं नाचरति