________________
प्रशमरतिप्रकरणम्
गुणवदमूच्छितमनसा तद्विपरीतमपि चाप्रदुष्टेन । दारूपमधृतिना भवति कल्प्यमास्वाद्यमास्वाद्यम् ॥१३६॥
८५
भोजनैषणामधिकृत्याह-पन्नग इवाभ्यवहरेत् । सर्पो हि भक्ष्यं " ग्रसित्वा न चर्वणमाचरति ग्रसत एव गिलत्येव, तथा साधुरपि भुञ्जानो न चर्वणं करोति । तथा
"नो वामाओ दाहिणं हणुअं संचारिज्जा, दाहिणाओ वामं संचारिज्जा । (न वामाद् दक्षिणं हनुकं सञ्चारयेत्, दक्षिणाद् न वामं सञ्चारयत् । )
इत्यादि । ‘पुत्रपलवच्च पलं मांसं पुत्रमांसमित्यर्थः, पुत्रशब्दोऽपत्यवचनः । चिलातपुत्रव्यापादितदुहितृमांसास्वादनवदिति । अयमभिप्रायः - पितुर्भ्रातुर्वा भक्षयतस्तन्मांसं न तत्रास्ति रसगाद्ध, शरीररक्षणार्थमेव केवलं ताभ्यामास्वादितं, न रसार्थं दर्पार्थं वा मांसोपभोगः १० कृतस्तथा साधुना रसेष्वगृद्धेन ११ दर्पादिवर्जितेन यथालब्धमेषणीयं भोक्तव्यमिति ॥१३५॥
( १३६ ) टीका-पुनरभ्यवहार्यमेव' विशिनष्टि – गुणवदमूच्छितेत्यादि । गुणवदिष्टरस गन्धमूच्छितं रागयुक्तं च चेतो यस्य स मूर्च्छितमनाः । न मूर्च्छितमना अमूर्च्छितमनाः । तेन अमूर्छितमनसा भक्ष्यमास्वाद्यं भोज्यमिति । तद्विपरीतमित्यमनोज्ञमनिष्टरसगन्धम्। तदप्यप्रदुष्टे
व्रणलेपवदक्षोपाङ्गवच्चेत्यर्थः । अभ्यवहरेद् आहारमित्यस्यात्रापि योगः । किमर्थमित्याह-असङ्गासाधवस्तेषां योगाः-'संयमव्यापाराः तेषां भर:- सङ्घातः स एव तन्मात्रं तस्य यात्रा - निर्वाहस्तदर्थं तत्तथा, धर्मानुष्ठाननिर्वाहार्थमिति निष्कषः, इदं निमित्तपदमग्रेतन दृष्टान्तद्वयेऽपि योज्यम् । तथा पन्नग इव-सर्पवदभ्यवहरेद्-भुञ्जीताहारं - पिण्डम्, यथा हि पन्नगो भक्ष्यं तृप्त्यर्थं रसमगृह्णन् ग्रसते, न चर्वति, एवं साधुरपि । तथा पुत्रशब्दोऽपत्यपर्यायः, पुत्रस्य पलं मांसं तदिव पुत्रिकाया वा, "तद्वद्, भावना पूर्ववद् । दृष्टान्तस्तु चिलातिपुत्रव्यापादितदुहितृमांसं यथा हि पितुभ्रातॄणां च भक्षयतां तन्मांसं न तत्रास्ति रसगार्ध्यं, किन्तु शरीरधारणार्थमेव, एवं साधुनाऽपि रसेष्वगृद्धेनाप्यभ्यवहार्यमन्नमिति
॥१३५॥
(१३६) (वि० ) पुनरेनमेवार्थं सविशेषमाह - गुणवदिति । अत्रास्वाद्यशब्दद्वयं विद्यते, एवम् । तथा चिलातिपुत्रमारितधनश्रेष्ठिसुतामांसास्वादकपितृपुत्रादिवद्वा । यथा तैः शरीरस्य धारणार्थमेव तस्या मांसमास्वादितं तथा साधुरप्यभ्यवहरेत् कटुतिक्तमधुरादिस्वादमादत्ते ॥१३५॥
( १३६ ) ( अव० )-विशिष्टतरास्वादं अगृद्धचित्तेन साधुनेति प्रक्रमः । तद्विपरीतमप्यविद्यमानाविशिष्टास्वादमपि = स्वादरहितमिति, मनसा । द्वेषरहितेन यथा वृको सरसं विरसं वा न विलोकयति तदवगाहमानोऽपि, तद्वत्साधुनापि दारूपमधृतिना = दारुतुल्यसमाधिना आस्वाद्यं-वस्तु आस्वाद्यं-क्रिया आस्वादनीयम् ॥१३६॥