________________
८६
प्रशमरतिप्रकरणम्
कालं क्षेत्रं मात्रां स्वात्म्यं द्रव्यगुरुलाघवं स्वबलम् ।
ज्ञात्वा योऽभ्यवहार्यं भुङ्क्ते किं भेषजैस्तस्य ॥१३७॥ नाद्विष्टेन द्वेषरहितेनेत्यर्थः । यात्रासाधनमात्रमालम्बनमधिकृत्य५ यत्किञ्चिदेषणीयमरक्तद्विष्टेन चित्तेनाभ्यवहरेत् । दारूपमा धृतिर्यस्याविकारिणी। काष्ठं हि वास्यादिभिस्तक्ष्यमाणं न द्वेषं भजते, नापि च चन्दनपुष्पादिभिः पूज्यमानं रागमुद्वहति । यथा तदचेतनं रागद्वेषरहितं, तद्वत् साधुनापि सत्यपि चेतनावत्त्वे इष्टानिष्टान्नपानलाभे सति भोक्तव्यम् । अरक्तद्विष्टेन कल्पनीयमास्वाद्यं भक्षणीयम् । पुनरास्वाद्यमिति भोक्तव्यमित्यर्थः । तच्च भोजनं कालाद्यपेक्षमभ्यवह्रियमाणं नाजीर्णादिदोषकारि ९भवतीति ॥१३६॥
(१३७) टीका-कालं क्षेत्रमित्यादि । भोक्त्रा कालोऽपेक्षणीयः ग्रीष्मवर्षाशिशिरभेदः । ग्रीष्मे बहुपानकं पातव्यमतः स्वल्पतरं भुङ्क्ते येन भुक्तं च पानं वाऽक्लेशेनैव ३जीर्यति । तथा वर्षासु साधारणं भक्तं पानं च यथोदरषड्भाग ऊनो भवति तथा भुङ्क्ते । शिशिरे च बहुतरं चान्नमेव भुङ्क्ते स्वल्पतरमुदकमापिबति । तथा ५क्षेत्रापेक्षं, रूक्षं स्निग्धं शिशिरे च त्रिधा क्षेत्रं । तत्र रूक्षे सुराष्ट्रादौ ६बहुभक्तभोजी भवति उनोदरषड्भागमात्रः । स्निग्धे जलबहुलविषये मात्रयाऽभ्यवहारं करोति यथा सुजरं भवति । तथा शिशिरक्षेत्रे शीतबहुले काश्मीरादौ अन्नपरिपाकः सुखो भवति यथा तथाऽभ्यवहर्तव्यम् । मात्रा
तत्रैकस्याशनादि वाच्यं अपरस्य तु अभ्यवहरणक्रिया। ततश्चैवं योज्यते-भवति-जायते, किं तद् ?
आस्वाद्यं-भोक्तव्यं. किम ?-आस्वाद्यम-अशनादिकं, अत्र द्वावपि कर्मसाधनावास्वाद्यशब्दावित्यर्थः । कीदृशम् ?-गुणवत्-स्वादुगुणोपेतं, तथा कल्प्यं-कल्पनीयम् । केनात आहअमूच्छितमनसा-अमृदुचित्तेन, साधुनेति प्रक्रमः । तथा तद्विपरीतमपि च-अन्यथाभूतम्-अगुणवदपि च अविद्यमानास्वादं कल्प्यं-शुद्धं इदं चाप्रदुष्टेन-साधुना द्वेषरहितेन । पुनः कीदृशेन ?-दारुणाकाष्ठेनोपमा-उपमानं सर्वत्रैकस्वभावतातुल्यता यस्यां सा तथा, सा धृतिर्यस्य स तथा तेन, दारुकमचेतनत्वाच्चन्दनादिभिः अभ्यर्च्यमानं न रागं न तु वास्यादिभिस्तक्ष्यमाणं द्वेषं करोति, किं तर्हि ?-एकस्वरूपमेव तिष्ठति, एवं साधुरपि शुभाशुभाहारविषये रागद्वेषं न यायादिति ॥१३६।।
(१३७) (वि०) तत्र भोजनं कालाद्यपेक्षमभ्यवह्रियमाणं नाजीर्णादिदोषकरं 'स्यादित्येतदाह-कालमिति । कालं-ग्रीष्मादिकं दुर्भिक्षादिकं वा, तथा क्षेत्रं-रूक्षादिकं तथा मात्रां
(१३७) (अव०)-कालमुष्णकालादि स्निग्धेतरादि च क्षेत्रं सुभिक्षादिकं च । मात्रामल्पादिरूपां, सात्म्यं यद्यस्योपभुक्तं परिणतिमेति । तथा द्रव्याणांघृतगुडादीनां गुरुत्वं लघुत्वं च । यद्वा येन द्रव्येणोपभुक्तेन गुणानां 'ज्ञानादीनां गौरवं 'दोषाणां प्रमादादीनां लाघवं चात्मनः स्यात् तद् भोज्यं वस्तु ॥१३७॥