________________
प्रशमरतिप्रकरणम्
पिण्डः शय्या वस्त्रैषणादि पात्रैषणादि यच्चान्यत् । कल्प्याकल्प्यं सद्धर्मदेहरक्षानिमित्तोक्तम् ॥१३८॥
८७
निजाग्निबलापेक्षा प्रमाणयुक्तोऽ ऽप्याहारः कस्यचिन्न क्षमते, अतस्तादृशी मात्रा कर्तव्या या सुजरा भवति । सात्म्येति स्वभावः कस्यचिदत्यन्तस्निग्ध एवाहारः सुखं परिणमते, कस्यचिद्रूक्षः कस्यचिन्मध्यः । विरुद्धद्रव्यसम्पर्कोऽपि कस्यचित्सुखावहः । सात्म्यस्यानेकप्रकारत्वात् । द्रव्यं माहिषं दधि क्षीरं वा गुरु, 'लघु तु गव्यं दधि पयो वा ९एवमन्येषामपि द्रव्याणां गौरवं लाघवं खण्डखाद्यदध्योदनादीनां विज्ञाय स्वबलं च वातप्रकोपादिव्याधिदूषितमदूषितं च ज्ञात्वा योऽभ्यवहारमन्नादि भुङ्क्ते, किं भेषजैस्तस्येति ?, न किञ्चिदौषधैस्तस्य प्रयोजनम् । अनवकाशानि हि तत्र भैषजानीत्यर्थः ॥१३७॥,
(१३८) टीका - ननु पिण्डप्रतिश्रयवस्त्रपात्रादि परिगृह्णन् कथमकिञ्चनः २ साधुर परिग्रहो भवेदित्याह–पिण्डः शय्येत्यादि । पिण्ड इत्याहारश्चतुर्विधः ३ अशनीयः । शय्या प्रतिश्रयः । वस्त्रं पात्रबन्ध - चोलपट्टक- मुखवस्त्रिकादि । आदिग्रहणाद्वस्त्रग्रहणे यो विधिरुक्तः ४स सर्वः परिगृह्यते । “पात्रग्रहणात् प्रतिग्रहकमात्रकग्रहणम् । इहाप्यादिग्रहणात् पात्रैषणाविधौ यो विधिरुक्तस्तस्यापि ग्रहणम् । यच्चान्यदित्यौपग्रहिकं दण्डकादि सङ्गृहीतं कल्पनीयं तावदुत्सर्गतः सद्धर्मदेहरक्षानिमित्तम् । देहः शरीरम् । सद्धर्मो दशलक्षणकः क्षमादिः । शरीररक्षणे सति सद्धर्मरक्षणं, तन्मूलत्वाद्धर्मानुष्ठानस्य । शरीरकं हि संयमानुष्ठानार्थं पोष्यते, क्षमादेर्धर्मस्याधारस्तदिति । कल्पनीयस्य 'चालाभे लघुतरदोषासेवनं प्राग्वदाधाकर्मग्रहणम् । एवं शय्यावस्त्रपात्रदण्डकादिष्वपि योज्यम् । सर्वे च विषयाः सापवादा मैथुनवर्जम् । एवं ९सद्धर्म रक्षार्थं च सर्वमुक्तम् । न चासौ परिग्रहः तत्रामूच्छितत्वात्, 'मूर्च्छा परिग्रह' इति स्वकीयमाहार [गमन] प्रमाणं स्वात्म्यं - यद्यस्य प्रियं पथ्यं च द्रव्यं माहिषं दधि गुरु, गव्यादि दधि क्षीरं लघु । इह समासः कार्यः ५ । तत् तथा स्वबलं - निजसामर्थ्यं ज्ञात्वा-बुद्ध्वा तत् तथा योऽभ्यवहार्यम्-अन्नादि भुङ्क्ते किं भेषजैस्तस्येति ? ॥१३७॥
(१३८ ) (वि०) एवं पिण्डशय्यादिग्रहणे कथं निष्परिग्रहता स्यादित्याशङ्क्याह-पिण्ड इति । पिण्डादि प्रसिद्धम् 'पिण्डं' सेज्जं च वत्थं च, चउत्थं पायमेव य' (पिण्डः शय्या च वस्त्रं च चतुर्थं पात्रमेव च ।) इति (दशवैकालिकम् - ६.४८) । यच्चान्यत् - औपग्रहिकं दण्डकादि उत्सर्गतः कल्प्यंकल्पनीयं अपवादतो गाढालम्बनेनाकल्प्यमपि ग्राह्यम् । किमर्थमित्याह-सन् -शोभनो धर्मो यस्य स
(१३८ ) ( अव० ) – अन्यदौपग्रहिकं दण्डकादि १ उत्सर्गतोऽग्राह्यम्, कल्प्यं = कल्पनीयं, अपवादतो गाढालम्बनेन अकल्प्यमपि ग्राह्यं, लघुतरदोषासेवनं सद्धर्मदेहरक्षानिमित्तं कारणं तेनोक्तम्
॥१३८॥