________________
८८
प्रशमरतिप्रकरणम्
कल्प्याकल्प्यविधिज्ञः संविग्नसहायको विनीतात्मा । दोषमलिनेऽपि लोके प्रविहरति मुनिर्निरुपलेपः ॥१३९॥ यद्वत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥१४०॥
लक्षणादिति (तत्त्वार्थसूत्रम् - ७.१२) ॥१३८॥
(१३९) टीका - एवमुक्ता निष्परिग्रहता, सैव च पुनः स्पष्टीक्रियतेकल्प्याकल्प्येत्यादि । कल्पनीयं कल्प्यमुद्गमादिशुद्धं आहारोपधिशय्यादि, उद्गमादिदुष्टं वा अकल्पनीयं तस्य विधिविधानं " कल्पनीयेन शरीरकधारणं कुर्यात् २ असत [ अ ] कल्पनीयेनाप्यशठे- न सता कार्यं यत्नवता प्रावचनेन मार्गेणेत्येष विधिः " तं जानातीति कल्प्याकल्प-विधिज्ञः । संविग्नसहायक: संविग्नाः संसारभीरवो ज्ञानक्रियायुक्ताः, एवंविधाः सहाया यस्य स संविग्नसहायकः । असहायः सुसहायो वा । विनीतात्मेति विशेषेण नीत आत्मा ज्ञानदर्शनचारित्रोपचारविनयवश्यतां विनीतात्मा । एवंविधः साधुर्दोषमलिनेऽपि लोके मूर्च्छामलिनेऽपि मनुष्यलोके । रागद्वेषौ वा ४ दोषौ ताभ्यामयं मलिनो दूषितः सर्वो लोकः । एवंविधसकललोकमध्यवर्त्यपि प्रकर्षेण विविधमनेकप्रकारं रजो हरति प्रविहरति मुनिः । ६निरुपलेपो रागद्वेषाभ्यामस्पृष्टः । सर्वधनविनाशकारिणा वा लोभेन मूर्च्छालक्षणेनाग्रस्तो निरुपलेप इति । कर्माबन्धात् पूर्वबद्धमोक्षणाय प्रवर्तत इति ॥ १३९॥
(१४०) टीका - कथं पुनर्दोषवल्लोकान्तः पाती तत्कृतसंसर्गे दोषैर्न लिप्यते ? तथा स चासौ देहश्च तस्य रक्षा तस्या निमित्तं कारणं तेनोक्तं भणितं, न चैतत्परिग्रहः तत्रामूच्छितत्वादिति ॥१३८।।
(१३९) (वि० ) एषैव निष्परिग्रहता स्पष्टीक्रियते – कल्प्येति । कल्प्याकल्प्यं-शुद्धाशुद्धं पिण्डादि तस्य विधिः - विधानं तं जानाति कल्प्याकल्प्यविधिज्ञः, तथा संविग्नाः - सद्धर्माण: सहाया यस्य स तथा । तथा विनीतात्मा - स्वभावविनीतः । दोषमलिनेऽपि दूषणदूषितेऽपि लोके -जने प्रविहरति-आस्ते मुनिः-साधुर्निरुपलेपो - रागादिविरहित इति ॥१३९॥
(१४० ) ( वि० ) कथं पुनर्दोषवल्लोकान्तः पाती दोषैर्न लिप्यत इत्याह-यद्वदिति । यद्वद्
(१३९) (अव० )—–— कल्प्याकल्प्यस्य शुद्धयशुद्धिविधि जानातीति कल्प्य कल्प्य - विधिज्ञः । संविग्ना=ज्ञानक्रियायुक्ताः सहाया यस्य स्वभावेन विनीतः । दूषणदूषितेऽपि ३ विचरति, निरुपलेपो रागादिरहितः ॥१३९॥
(१४०) (अव० )—–'कर्दमाधारेऽपि स्थितम्, पङ्केन, तथा धर्मोपकरणं वस्त्रपात्रादि, तेन धृतं वपुरस्य । अलेपको लोभेन न स्पृश्यते मुनिः ॥१४०॥