________________
प्रशमरतिप्रकरणम्
यद्वत्तुरगः सत्स्वप्याभरणविभूषणेष्वनभिसक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥१४१॥ ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च ।
तज्जयहेतोरशठं संयतते यः स निर्ग्रन्थः ॥१४२॥ इत्याह-यद्वत्पङ्काधारेत्यादि। यद्वदिति दृष्टान्तोपन्यास:१ । यथा पङ्काधारं पङ्कमध्यादुत्पन्नं पङ्कमध्यस्थितं वा । पङ्कजं नलिनम् । नोपलिप्यते न स्पृश्यते कर्दमेन । धर्मोपकरणधृतवपुरपि २साधुरलेपकस्तद्वद् धर्मार्थमुपकरणं धर्मोपकरणं रजोहरण-मुखवस्त्रिका-चोपलट्टककल्पादिकं तेन धृतवपुरपि कृतशरीरसंरक्षोऽपि । स्वव्यतिरिक्तजीवकायकृतसंरक्षणश्च साधुरलेपक एव लोभदोषेण न स्पृश्यते, शुद्धाशयत्वादमूच्छितत्वादित्यर्थः ॥१४०॥
(१४१) टीका-तथापरोऽपि दृष्टान्तः-यद्वत्तुरग इत्यादि । यथा तुरगः सत्स्वपि विभूषणेषु वालव्यजनादिष्वश्वमण्डनकेषु चाऽनभिसक्तः अमूच्छितः अकृतगाद्धयः । न तेन परिग्रहेणासौ परिग्रहवान् । तद्वदिति दृष्टान्तेन रेसमीकरोति दालन्तिकमर्थम् । तद्वदुपग्रहवानपि धर्मायोपकरणमुपग्रह: तद्वानपि धर्मोपकरणयुक्तोऽपीत्यर्थः । न सङ्गं स्नेहं मूर्छामुपयाति । अत एव च बाह्यग्रन्थाभावादभ्यन्तरलोभादिग्रन्थाभावाच्च निर्ग्रन्थ इति । निर्गतो ग्रन्थो निर्ग्रन्थः ॥१४॥
(१४२) टीका-क: पुनरयं ग्रन्थ इत्याह-ग्रन्थः कर्मेत्यादि । ग्रथ्यते वेष्ट्यते 'बध्यते येन स ग्रन्थः । तच्चाष्टप्रकारं कर्म ज्ञानावरणाद्यन्तरायपर्यवसानम् । मिथ्यात्वाविरतिदुष्टयोगाश्च
यथा पङ्काधारं-कर्दममध्यादुत्पन्नमपि पङ्कजं-पद्मं नोपलिप्यते-न स्पृश्यते तेन-कर्दमेन । दार्टान्तिकमाह-धर्मोपकरणेन-वस्त्रपात्रादिना धृतं वपुर्यस्य स तथा साधुरलेपकः तद्वत् तथा । लोभेन न स्पृश्यते शुद्धाशयत्वादिति ॥१४०॥
(१४१) (वि०) तथा अपरोऽपि दृष्टान्तः-यद्वदिति । यद्वत्-यथा तुरगो-घोटक: सत्स्वपि-विद्यमानेष्वप्याभरणविभूषणेषु-'वालव्यजनादिष्वश्वमण्डनेषु अनभिषक्त:-अमूच्छितः, तद्वदिति दृष्टान्तः, उपग्रहवानपि-धर्मोपकरणयुक्तोऽपि न सङ्गमुपयाति-न स्नेहमुपगच्छति निर्ग्रन्थोवक्ष्यमाणपरिग्रहरहित इति ॥१४१॥
(१४२) (वि०) कः पुनरयं ग्रन्थ इत्याह-ग्रन्थ इति । ग्रथ्यते-वेष्ट्यते येन स ग्रन्थः सोऽष्टविधं कर्म मिथ्यात्वाविरतियोगाश्च पूर्वोक्ताः, तज्जयहेतोः-कर्मादिनिराकरणनिमित्तमशठं
(१४१) (अव०)-अकृतगाद्धयः धर्मोपकरणयुक्तोऽपि न स्नेहमुपगच्छति निर्ग्रन्थो= वक्ष्यमाणबाह्याभ्यान्तरपरिग्रहरहित इति ॥१४१॥
(१४२)(अव०)-ग्रन्थोऽष्ट प्रकारं कर्म, सम्यक्त्वाद्विपरीतं, प्राणातिपातादिभ्योऽनिवृत्तिः अशुभमनोवाक्कायाः, अशठं-मायारहितं, सम्यगुद्यच्छति ॥१४२॥