________________
प्रशमरतिप्रकरणम्
यज्ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये यत् तत् कल्प्यमकल्प्यमवशेषम् ॥१४३॥ यत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् । तत्कल्प्यमप्यकल्प्यं प्रवचनकुत्साकरं यच्च ॥१४४॥
मिथ्यात्वं तत्त्वार्थाश्रद्धानं, अविरतिरनिवृत्तिः प्राणातिपातादिभ्यः, दुष्टयोगा मनोवाक्कायाः । मिथ्यात्वादयश्चाष्टविधस्य कर्मणो हेतव इति ग्रन्थशब्दवाच्याः । तेषां मिथ्यात्वादीनां जयेऽभिभवे निराकरणे । यतते मायादिशल्यरहितस्तज्जयहेतोस्ताञ्जेष्यामीति, सम्यगागमोक्तेन विधिना । स निर्ग्रन्थ इति । एतेन मूलसङ्घादिदिगम्बराः प्रत्युक्ताः ॥१४२॥
(१४३) टीका-किं पुनः कल्प्यमकल्प्यं चेत्याह-यज्ज्ञानशीलतपसामित्यादि । यदिति यस्मात् । ज्ञानं श्रुतमागमः । शीलं मूलोत्तरगुणाः । तपोऽनशनादि द्वादशभेदम् । उपग्रहमुपोद्वलनं संवर्धनम् । निग्रहं च दोषाणाम् । दोषाः क्षुत्पिपासादयः शीतोष्णादयो वा रागद्वेषप्रभृतयो वा । तेषां निग्रहं निवारणं करोति । कल्पयति समर्थमुपग्रहनिग्रहयोर्भवति । यद्वस्तु आहारोपधिशय्यादि । निश्चयोऽपवादः । व्यवहारो विधिः । तत्कल्प्यम् । यस्मान्निश्चये व्यवहारे । ज्ञानादीनामुपग्रहकारि दोषाणां च निग्रहकारि यद्वस्तु तत् कल्पनीयम् । ३अकल्पनीयम् अवशिष्टमिति ॥१४३।।
(१४४) टीका-१एनमेवार्थं स्पष्टयति-यत्पुनरुपघातेत्यादि । उपघातो विनाशस्तं
मायारहितं यथा भवति । संयतते-सम्यगुद्यच्छति यः स निर्ग्रन्थो भवतीति ॥१४२।।
(१४३) (वि०) सम्प्रति कल्प्यमकल्प्यं वा किं तत् साधूनामित्यावेदयन्नाह-यदिति । यद्वस्तु ज्ञानादीनां त्रयाणां प्रसिद्धस्वरूपाणामुपग्रहम्-उपष्टम्भं, तथा निग्रहं च-निवारणं दोषाणां-क्षुदादीनां रागादीनां वा, कल्पयति-करोति तद्वस्तु, क्व?-निश्चये-निश्चयनये 'विचार्ये एतत् कल्प्यं-कल्पनीयं । यदित्थंभूतं वस्तु न भवति तदकल्प्यमवशेषम्-अन्यदिति ॥१४३।।
(१४४) (वि०) विपर्ययमाह-यत्पुनरिति । यदित्यार्याधु कण्ठ्यम् । तत् कल्प्यमपिशुद्धमपि पिण्डाद्यकल्प्यं, यच्च वस्तु प्रवचनकुत्साकरं-शासननिन्दाविधायकं तदप्य
(१४३) (अव०)-संवर्धनमुपष्टम्भे, व्यवहारेण २व्यापारयितुं, अवशेषम् अवशिष्टम् ॥१४३॥
(१४४) (अव०)-उपघातकरं हानिकर, योगा:-शुभव्यापाराः, जिनशासनविकुत्साकरं